भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.40

1.40.1

॥19॥.
-र्व्_1:3।20-
(र्व्_1,40)
उत् । तिष्ठ । ब्रह्मणः । पते । देव-यन्तः । त्वा । ईमहे । उप । प्र । यन्तु । मरुतः । सु-दानवः । इन्द्र । प्रासूः । भव । सचा

1.40.2

त्वाम् । इत् । हि । सहसः । पुत्र । मर्त्यः । उप-ब्रूते । धने । हिते । सु-वीर्यम् । मरुतः । आ । सु-अश्व्यम् । दधीत । यः । वः । आचक्रे

1.40.3

प्र । एतु । ब्रह्मणः । पतिः । प्र । देवी । एतु । सूनृता । अच्छ । वीरम् । नर्यम् । पङ्क्ति-राधसम् । देवाः । यज्ञम् । नयन्तु । नः

1.40.4

यः । वाघते । ददाति । सूनरम् । वसु । सः । धत्ते । अक्षिति । श्रवः । तस्मै । इळाम् । सु-वीराम् । आ । यजामहे । सु-प्रतूर्तिम् । अनेहसम्

1.40.5

प्र । नूनम् । ब्रह्मणः । पतिः । मन्त्रम् । वदति । उक्थ्यम् । यस्मिन् । इन्द्रः । वरुणः । मित्रः । अर्यमा । देवाः । ओकांसि । चक्रिरे

1.40.6

॥20॥.
-र्व्_1:3।21-
तम् । इत् । वोचेम । विदथेषु । शम्भुवम् । मन्त्रम् । देवाः । अनेहसम् । इमाम् । च । वाचम् । प्रति-हर्यथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत्

1.40.7

कः । देव-यन्तम् । अश्नवत् । जनम् । कः । वृक्त-बर्हिषम् । प्र-प्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तः-वावत् । क्षयम् । दधे

1.40.8

उप । क्षत्रम् । पृञ्चीत । हन्ति । राज-भिः । भये । चित् । सु-क्षितिम् । दधे । न । अस्य । वर्ता । न । तरुता । महाधने । न । अर्भे । अस्ति । वज्रिणः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc