भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.39

1.39.1

॥17॥.
-र्व्_1:3।18-
(र्व्_1,39)
प्र । यत् । इत्था । परावतः । शोचिः । न । मानम् । अस्यथ । कस्य । क्रत्वा । मरुतः । कस्य । वर्पसा । कम् । याथ । कम् । ह । धूतयः

1.39.2

स्थिरा । वः । सन्तु । आयुधा । परानुदे । वीळु । उत । प्रति-स्कभे । युष्माकम् । अस्तु । तविषी । पनीयसी । मा । मर्त्यस्य । मायिनः

1.39.3

परा । ह । यत् । स्थिरम् । हथ । नरः । वर्तयथ । गुरु । वि । याथन । वनिनः । पृथिव्याः । वि । आशाः । पर्वतानाम्

1.39.4

नहि । वः । शत्रुः । विविदे । अधि । द्यवि । न । भूम्याम् । रिशादसः । युष्माकम् । अस्तु । तविषी । तना । युजा । रुद्रासः । नु । चित् । आधृषे

1.39.5

प्र । वेपयन्ति । पर्वतान् । वि । विञ्चन्ति । वनस्पतीन् । प्रो इति । आरत । मरुतः । दुर्मदाः-इव । देवासः । सर्वया । विशा

1.39.6

॥18॥.
-र्व्_1:3।19-
उपो इति । रथेषु । पृषतीः । अयुग्ध्वम् । प्रष्टिः । वहति । रोहितः । आ । वः । यामाय । पृथिवी । चित् । अश्रोत् । अबीभयन्त । मानुषाः

1.39.7

आ । वः । मक्षु । तनाय । कम् । रुद्राः । अवः । वृणीमहे । गन्त । नूनम् । नः । अवस् यथा । पुरा । इत्था । कण्वाय । बिभ्युषे

1.39.8

युष्माइषितः । मरुतः । मर्त्य-इषितः । आ । यः । नः । अभ्वः । ईषते । वि । तम् । युयोत । शवसा । वि । ओजसा । वि । युष्माकाभिः । ऊति-भिः

1.39.9

असामि । हि । प्र-यज्यवः । कण्वम् । दृ । प्र-चेतसः । असामि-भिः । मरुतः । आ । नः । ऊति-भिः । गन्त । वृष्टिम् । न । वि-द्युतः

1.39.10

असामि । ओजः । बिभृथ । सु-दानवः । असामि । धूतयः । शवः । ऋषि-द्विषे । मरुतः । परि-मन्यवे । इषुम् । न । सृजत । द्विषम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc