ऋग्वेदसंहिता, पदपाठ · अध्याय 1.38
॥14॥.
-र्व्_1:3।15-
(र्व्_1,38)
कत् । ह । नूनम् । कध-प्रियः । पिता । पुत्रम् । न । हस्तयोः । दधिध्वे । वृक्त-बर्हिषः
क्व । नूनम् । कत् । वः । अर्थम् । गन्ता । दिवः । न । पृथिव्याः । क्व । वः । गावः । न । रण्यन्ति
क्व । वः । सुम्ना । नव्यांसि । मरुतः । क्व । सुविता । क्व । विश्वानि । सौभगा
यत् । यूयम् । पृश्नि-मातरः । मर्तासः । स्यातन । स्तोता । वः । अमृतः । स्यात्
मा । वः । मृगः । न । यवसे । जरिता । भूत् । अजोष्यः । पथा । यमस्य । गात् । उप
॥15॥.
-र्व्_1:3।16-
मो इति । सु । णः । परापरा । निः-ऋतिः । दुः-हना । वधीत् । पदीष्ट । तृष्णया । सह
सत्यम् । त्वेषाः । अम-वन्तः । धन्वम् । चित् । आ । रुद्रियासः । मिहम् । कृण्वन्ति । अवाताम्
वाश्राइव । वि-द्युत् । मिमाति । वत्सम् । न । माता । सिषक्ति । यत् । एषाम् । वृष्टिः । असर्जि
दिवा । चित् । तमः । कृण्वन्ति । पर्जन्येन । उद-वाहेन । यत् । पृथिवीम् । वि-उन्दन्ति
अध । स्वनात् । मरुताम् । विश्वम् । आ । सद्म । पार्थिवम् । अरेजन्त । प्र । मानुषाः
॥16॥.
-र्व्_1:3।17-
मरुतः । वीळुपाणि-भिः । चित्राः । रोधस्वतीः । अनु । यात । ईम् । अखिद्रयाम-भिः
स्थिराः । वः । सन्तु । नेमयः । रथाः । अश्वासः । एषाम् । सु-संस्कृताः । अभीशवः
अच्छ । वद । तना । गिरा । जरायै । ब्रह्मणः । पतिम् । अग्निम् । मित्रम् । न । दर्शतम्
मिमीहि । श्लोकम् । आस्ये । पर्जन्यः-इव । ततनः । गाय । गायत्रम् । उक्थ्यम्
वन्दस्व । मारुतम् । गणम् । त्वेषम् । पनस्युम् । अर्किणम् । अस्मे इति । वृद्धाः । असन् । इह
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0