ऋग्वेदसंहिता, पदपाठ · अध्याय 1.37
॥11॥.
-र्व्_1:3।12-
(र्व्_1,37)
क्रीळम् । वः । शर्धः । मारुतम् । अनर्वाणम् । रथे--शुभम् । कण्वाः । अभि । प्र । गायत
ये । पृषतीभिः । ऋष्टि-भिः । साकम् । वाशीभिः । अञ्जि-भिः । अजायन्त । स्व-भानवः
इह-इव । शृण्व । एषाम् । कशाः । हस्तेषु । यत् । वदान् । नि । यामन् । चित्रम् । ऋञ्जते
प्र । वः । शर्धाय । घृष्वये । त्वेष-द्युम्नाय । शुष्मिणे । देवत्तम् । ब्रह्म । गायत
प्र । शंस । गोषु । अघ्न्यम् । क्रीळम् । यत् । शर्धः । मारुतम् । जम्भे । रसस्य । ववृधे
॥12॥.
-र्व्_1:3।13-
कः । वः । वर्षिष्ठः । आ । नरः । दिवः । च । ग्मः । च । धूतयः । यत् । सीम् । अन्तम् । न । धूनुथ
नि । वः । यामाय । मानुषः । दध्रे । उग्राय । मन्यवे । जिहीत । पर्वतः । गिरिः
येषाम् । अज्मेषु । पृथिवी । जुजुर्वान्-इव । विश्पतिः । भिया । यामेषु । रेजते
स्थिरम् । हि । जानम् । एषाम् । वयः । मातुः । निः-एतवे । यत् । सीम् । अनु । द्विता । शवः
उत् । ओं इति । त्ये । सूनवः । गिरः । काष्ठाः । अज्मेषु । अत्नत । वाश्राः । अभि-ज्ञु । यातवे
॥13॥.
-र्व्_1:3।14-
त्यम् । चित् । घ । दीर्घम् । पृथुम् । मिहः । नपातम् । अमृध्रम् । प्र । च्यवयन्ति । याम-भिः
मरुतः । यत् । ह । वः । बलम् । जनान् । अचुच्यवीतन । गिरीन् । अचुच्यवीतन
यत् । ह । यान्ति । मरुतः । सम् । ह । ब्रुवते । अध्वन् । आ । शृणोति । कः । चित् । एषाम्
प्र । यात । शीभम् । आशुभिः । सन्ति । कण्वेषु । वः । दुवः । तत्रो इति । सु । मादयाध्वै
अस्ति । हि । स्म । मदाय । वः । स्मसि । स्म । वयम् । एषाम् । विश्वम् । चित् । आयुः । जीवसे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0