भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.36

1.36.1

॥7॥.
-र्व्_1:3।8-
(र्व्_1,36)
प्र । वः । यह्वम् । पुरूणाम् । विशाम् । देव-यतीनाम् । अग्निम् । सु-उक्तेभिः । वचः-भिः । ईमहे । यम् । सीम् । इत् । अन्ये । ईळते

1.36.2

जनासः । अग्निम् । दधिरे । सहः-वृधम् । हविष्मन्तः । विधेम । ते । सः । त्वम् । नः । अद्य । सु-मनाः । इह । अविता । भव । वाजेषु । सन्त्य

1.36.3

प्र । त्वा । दूतम् । वृणीमहे । होतारम् । विश्व-वेदसम् । महः । ते । सतः । वि । चरन्ति । अर्चयः । दिवि । स्पृशन्ति । भानवः

1.36.4

देवासः । त्वा । वरुणः । मित्रः । अर्यमा । सम् । दूतम् । प्रत्नम् । इन्धते । विश्वम् । सः । अग्ने । जयति । त्वया । धनम् । यः । ते । ददाश । मर्त्यः

1.36.5

मन्द्रः । होता । गृह-पतिः । अग्ने । दूतः । विशाम् । असि । त्वे इति । विश्वा । सम्-गतानि । व्रता । ध्रुवा । यानि । देवाः । अकृण्वत

1.36.6

॥8॥.
-र्व्_1:3।9-
त्वे । इत् । अग्ने । सुभगे । यविष्ठ्य । विश्वम् । आ । हूयते । हविः । सः । त्वम् । नः । अद्य । सु-मनाः । उत । अपरम् । यक्षि । देवान् । सु-वीर्या

1.36.7

तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्व-राजम् । आसते । होत्राभिः । अग्निम् । मनुषः । सम् । इन्धते । तितिर्वांसः । अति । स्रिधः

1.36.8

घ्नन्तः । वृत्रम् । अतरन् । रोदसी इति । अपः । उरु । क्षयाय । चक्रिरे । भुवत् । कण्वे । वृषा । द्युम्नी । आहुतः । क्रन्दत् । अश्वः । गो--इष्टिषु

1.36.9

सम् । सीदस्व । महान् । असि । शोचस्व । देव-वीतमः । वि । धूमम् । अग्ने । अरुषम् । मियेध्य । सृज । प्र-शस्त । दर्सतम्

1.36.10

यम् । त्वा । देवासः । मनवे । दधुः । इह । यजिष्ठम् । हव्य-वाहन । यम् । कण्वः । मेध्य-अतिथिः । धन-स्पृतम् । यम् । वृषा । यम् । उप-स्तुतः

1.36.11

॥9॥.
-र्व्_1:3।10-
यम् । अग्निम् । मेध्य-अतिथिः । कण्वः । ईघे । ऋतात् । अधि । तस्य । प्र । इषः । दीदियुः । तम् । इमाः । ऋचः । तम् । अग्निम् । वर्धयामसि

1.36.12

रायः । पूर्धि । स्वधा-वः । अस्ति । हि । ते । अग्ने । देवेषु । आप्यम् । त्वम् । वाजस्य । श्रुत्यस्य । राजसि । सः । नः । मृळ्ह । महान् । असि

1.36.13

ऊर्ध्वः । ओं इति । सु । नः । ऊतये । तिष्ठ । देवः । न । सविता । ऊर्ध्वः । वाजस्य । सनिता । यत् । अञ्जि-भिः । वाघत्-भिः । वि-ह्वयामहे

1.36.14

ऊर्ध्वः । नः । पाहि । अंहसः । नि । केतुना । विश्वम् । सम् । इत्रिणम् । दह । कृधि । नः । ऊर्ध्वान् । चरथाय । जीवसे । विदाः । देवेषु । नः । दुवः

1.36.15

पाहि । नः । अग्ने । रक्षसः । पाहि । धूर्तेः । अराव्णः । पाहि । रिषतः । उत । वा । जिघांसतः । बृहद्भानो इतिबृहत्-भानो । यविष्ठ्य

1.36.16

॥10॥.
-र्व्_1:3।11-
घनाइव । विष्वक् । वि । जहि । अराव्णः । तपुः-जम्भ । यः । अस्म-ध्रुक् । यः । मर्त्यः । शिशीते । अति । अक्तु-भिः । मा । नः । सः । रिपुः । ईशत

1.36.17

अग्निः । वव्ने । सु-वीर्यम् । अग्निः । कण्वाय । सौभगम् । अग्निः । प्र । आवत् । मित्रा । उत । मेध्य-अतिथिम् । अग्निः । सातौ । उप-स्तुतम्

1.36.18

अग्निना । तुर्वशम् । यदुम् । परावतः । उग्र-देवम् । हवामहे । अग्निः । नयत् । नव-वास्त्वम् । बृहत्-रथम् । तुर्वीतिम् । दस्यवे । सहः

1.36.19

नि । त्वाम् । अग्ने । मनुः । दधे । ज्योतिः । जनाय । शश्वते । दीदेथ । कण्वे । ऋत-जातः । उक्षितः । यम् । नमस्यन्ति । कृष्टयः

1.36.20

त्वेषासः । अग्नेः । अम-वन्तः । अर्चयः । भीमासः । न । प्रति-इतये । रक्षस्विनः । सदम् । इत् । यातु-मावतः । विश्वम् । सम् । अत्रिणम् । दह

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc