ऋग्वेदसंहिता, पदपाठ · अध्याय 1.35
॥5॥.
-र्व्_1:3।6-
(र्व्_1,35)
ह्वयामि । अग्निम् । प्रथमम् । स्वस्तये । ह्वयामि । मित्रावरुणौ । इह । अवसे । ह्वयामि । रात्रीम् । जगतः । निवेशनीम् । ह्वयामि । देवम् । सवितारम् । ऊतये
आ । कृष्णेन । रजसा । वर्तमानः । नि-वेशयन् । अमृतम् । मर्त्यम् । च । हिरण्ययेन । सविता रथेन । आ । देवः । याति । भुवनानि । पश्यन्
याति । देवः । प्र-वता । याति । उत्-वता । याति । शुभ्राभ्याम् । यजतः । हरि-भ्याम् । आ । देवः । याति । सविता । परावतः । अप । विश्वा । दुः-इता । बाधमानः
अभि-वृतम् । कृशनैः । विश्व-रूपम् । हिरण्य-शम्यम् । यजतः । बृहन्तम् । आ । अस्थात् । रथम् । सविता । चित्र-भानुः । कृष्णा । रजांसि । तविषीम् । दधानः
वि । जनान् । श्यावाः । शिति-पादः । अख्यन् । रथम् । हिरण्य-प्र-उगम् । वहन्तः । शश्वत् । विशः । सवितुः । दैव्यस्य । उप-स्थे । विश्वा । भुवनानि । तस्थुः
तिस्रः । द्यावः । सवितुः । द्वौ । उप-स्था । एका । यमस्य । भुवने । विराषाट् । आणिम् । न । रथ्यम् । अमृता । अधि । तस्थुः । इह । ब्रवीतु । यः । ओं इति । तत् । चिकेतत्
॥6॥.
-र्व्_1:3।7-
वि । सु-पर्णः । अन्तरिक्षाणि । अख्यत् । गभीर-वेपाः । असुरः । सु-नीथः । क्व । इदानीम् । सूर्यः । कः । चिकेत । कतमाम् । द्याम् । रश्मिः । अस्य । आ । ततान
अष्टौ । वि । अख्यत् । ककुभः । पृथिव्याः । त्री । धन्व । योजना । सप्त । सिन्धून् । हिरण्य-अक्षः । सविता । देवः । आ । अगात् । दधत् । रत्ना । दाशुषे । वार्याणि
हिरण्य-पाणिः । सविता । वि-चर्षणिः । उभे इति । द्यावापृथिवी इति । अन्तः । ईयते । अप । अमीवाम् । बाधते । वेति । सूर्यम् । अभि । कृष्णेन । रजसा । द्याम् । ऋणोति
हिरण्य-हस्तः । असुरः । सु-नीथः । सु-मृळीकः । स्व-वान् । यातु । अर्वाङ् । अप-सेधम् । रक्षसः । यातु-धानान् । अस्थात् । देवः । प्रति-दोषम् । गृणानः
ये । ते । पन्थाः । सवितरिति । पूर्व्यासः । अरेणवः । सु-कृताः । अन्तरिक्षे । तेभिः । नः । अद्य । पथि-भिः । सु-गेभिः । रक्ष । च । नः । अधि । च । ब्रूहि । देव
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0