ऋग्वेदसंहिता, पदपाठ · अध्याय 1.34
॥3॥
-र्व्_1:3।4-
(र्व्_1,34)
त्रिः । चित् । नः । अद्य । भवतम् । नवेदसा । वि-भुः । वाम् । यामः । उत । रातिः । अश्विना । युवोः । हि । यन्त्रम् । हिम्याइव । वाससः । अभि-आयंसेन्या । भवतम् । मनीषि-भिः
त्रयः । पवयः । मधु-वाहेन । रथे । सोमस्य । वेनाम् । अनु । विश्वे । इत् । विदुः । त्रयः । स्कम्भासः । स्कमितासः । आरभे । त्रिः । नक्तम् । याथः । त्रिः । ओं इति । अश्विना । दिवा
समाने । अहन् । त्रिः । अवद्य-गोहना । त्रिः । अद्य । यज्ञम् । मधुना । मिमिक्षतम् । त्रिः । वाजवतीः । इषः । अश्विना । युवम् । दोषा । अस्मभ्यम् । उषसः । च । पिन्वतम्
त्रिः । वर्तिः । यातम् । त्रिः । अनु-व्रते । जने । त्रिः । सुप्र-अव्ये । त्रेधाइव । शिक्षतम् । त्रिः । नान्द्यम् । वहतम् । अश्विना । युवम् । त्रिः । पृक्षः । अस्मे इति । अक्षराइव । पिन्वतम्
त्रिः । नः । रयिम् । वहतम् । अश्विना । युवम् । त्रिः । देवताता । त्रिः । उत । अवतम् । धियः । त्रिः । सौभग-त्वम् । त्रिः । उत । श्रवांसि । नः । त्रिः-स्थम् । वाम् । सूरे । दुहिता । रुहत् । रथम्
त्रिः । नः । अश्विना । दिव्यानि । भेषजा । त्रिः । पार्थिवान् । त्रिः । ओं इति । दत्तम् । अत्-भ्यः । ओमानम् । शम्-योः । ममकाय । सूनवे । त्रि-धातु । शमर् । वहतम् । शुभः । पती
इति
॥4॥.
-र्व्_1:3।5-
त्रिः । नः । अस्विना । यजता । दिवे--दिवे । परि । त्रि-धातु । पृथिवीम् । अशायतम् । तिस्रः । नासत्या । रथ्या । परावतः । आत्माइव । वातः । स्वसराणि । गच्छतम्
त्रिः । आश्विना । सिन्धु-भिः । सप्तमातृ-भिः । त्रयः । आहावाः । त्रेधा । हविः । कृतम् । तिस्रः । पृथिवीः । उपरि । प्रवा । दिवः । नाकम् । रक्षेथेइति । द्यु-भिः । अक्तु-भिः । हितम्
क्व । त्री । चक्रा । त्रि-वृतः । रथस्य । क्व । त्रयः । वन्धुरः । ये । स-नीळाः । कदा । योगः । वाजिनः । रासभस्य । येन । यज्ञम् । नासत्या । उप-याथः
आ । नासत्या । गच्छतम् । हूयते । हविः । मध्वः । पिबतम् । मधु-पेभिः । आस-भिः । युवोः । हि । पूर्वम् । सविता । उषसः । रथम् । ऋताय । चित्रम् । घृत-वन्तम् । इष्यति
आ । नासत्या । त्रिभिः । एकादशैः । इह । देवेभिः । यातम् । मधु-पेयम् । अश्विना । प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाभुवा
आ । नः । अश्विना । त्रि-वृता । रथेन । अर्वाञ्चम् । रयिम् । वहतम् । सु-वीरम् । शृण्वन्ता । वाम् । अवसे । जोहवीमि । वृधे । च । नः । भवतम् । वाज-सातौ
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0