भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.33

1.33.1

॥38॥.
-र्व्_1:3।1-
(र्व्_1,33)
आ । इत । अयाम । उप । गव्यन्तः । इन्द्रम् । अस्माकम् । सु । प्र-मतिम् । ववृधाति । अनामृणः । कुवित् । आत् । अस्य । रायः । गवाम् । केतम् । परम् । आवर्जते । नः

1.33.2

उप । इत् । अहम् । धन-दाम् । अप्रति-इतम् । जुष्टाम् । न । श्येनः । वसतिम् । पतामि । इन्द्रम् । नमस्यन् । उप-मेभिः । अर्कैः । यः । स्तोतृ-भ्यः । हव्यः । अस्ति । यामन्

1.33.3

नि । सर्व-सेनः । इषु-धीन् । असक्त । सम् । अर्यः । गाः । अजति । यस्य । वष्टि । चोष्कूयमाणः । इन्द्र । भूरि । वामम् । मा । पणिः । भूः । अस्मत् । अधि । प्र-वृद्ध

1.33.4

वधीः । हि । दस्युम् । धनिनम् । घनेन । एकः । चरन् । उप-शाकेभिः । इन्द्र । धनोः । अधि । विषुणक् । ते । वि । आयन् । अयज्वानः । सनकाः । प्र-इतिम् । ईयुः

1.33.5

परा । चित् । शीर्षा । ववृजुः । ते । इन्द्र । अयज्वानः । यज्व-भिः । स्पर्धमानाः । प्र । यत् । दिवः । हरि-वः । स्थातः । उग्र । निः । अव्रतान् । अधमः । रोदस्योः

1.33.6

॥1॥.
-र्व्_1:3।2-
अयुयुत्सन् । अनवद्यस्य । सेनाम् । अयातयन्त । क्षितयः । नव-ग्वाः । वृष-युधः । न । वध्रयः । निः-अष्टाः । प्र-वत्-भिः । इन्द्रात् । चितयन्तः । आयन्

1.33.7

त्वम् । एतान् । रुदतः । जक्षतः । च । अयोधयः । रजसः । इन्द्र । पारे । अव । अदहः । दिवः । आ । दस्युम् । उच्चा । प्र । सुन्वतः । स्तुवतः । शंसम् । आवः

1.33.8

चकाणासः । परि-नहम् । पृथिव्याः । हिरण्येन । मणिना । शुम्भमानाः । न । हिन्वानासः । तितिरुः । ते । इन्द्रम् । परि । स्पशः । अदधात् । सूर्येण

1.33.9

परि । यत् । इन्द्र । रोदसी इति । उभे इति । अबुभोजीः । महिना । विश्वतः । सीम् । अमन्यमानान् । अभि । मन्यमानैः । निः । ब्रह्म-भिः । अधमः । दस्युम् । इन्द्र

1.33.10

न । ये । दिवः । पृथिव्याः । अन्तम् । आपुः । न । मायाभिः । धन-दाम् । परि-अभूवन् । युजम् । वज्रम् । वृषभः । चक्रे । इन्द्रः । निः । ज्योतिषा । तमसः । गाः । अधुक्षत्

1.33.11

॥2॥.
-र्व्_1:3।3-
अनु । स्वधाम् । अक्षरन् । आपः । अस्य । अवर्धत । मध्ये । आ । नाव्यानाम् । सध्रीचीनेन । मनसा । तम् । इन्द्रः । ओजिष्ठेन । हन्मना । अहन् । अभि । द्यून्

1.33.12

नि । अविध्यत् । इलीबिशस्य । दृळ्हा । वि । शृङ्गिणम् । अभिनत् । शुष्णम् । इन्द्रः । यावत् । तरः । मघ-वन् । यावत् । ओजः । वज्रेण । शत्रुम् । अवधीः । पृतन्युम्

1.33.13

अभि । सिध्मः । अजिगात् । अस्य । शत्रून् । वि । तिग्मेन । वृषभेण । पुरः । अभेत् । सम् । वज्रेण । असृजत् । वृत्रम् । इन्द्रः । प्र । स्वाम् । मतिम् । अतिरत् । शाशदानः

1.33.14

आवः । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । प्र । आवः । युध्यन्तम् । वृषभम् । दश-द्युम् । शफ-च्युतः । रेणुः । नक्षत । द्याम् । उत् । श्वैत्रेयः । नृ-सह्याय । तस्थौ

1.33.15

आवः । शमम् । वृषभम् । तुग्र्यासु । क्षेत्र-जेषे । मघ-वन् । श्वित्र्यम् । गाम् । ज्योक् । चित् । अत्र । तस्थि-वांसः । अक्रन् । शत्रु-यताम् । अधरा । वेदना । अकर् इत्य् अकः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc