भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.29

1.29.1

॥26॥.
-र्व्_1:2।27-
(र्व्_1,29)
यत् । चित् । हि । सत्य । सोम-पा । अनाशस्ताः-इव । स्मसि । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.2

शिप्रिन् । वाजानाम् । पते । शची-वः । तव । दंसना । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.3

नि । स्वापय । मिथु-दृशा । सस्ताम् । अबुध्यमानेइति । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.4

ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.5

सम् । इन्द्र । गर्दभम् । मृण । नुवन्तम् । पापया । अमुया । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.6

पताति । कुण्डृणाच्या । दूरम् । वातः । वनात् । अधि । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

1.29.7

सर्वम् । परि-क्रोशम् । जहि । जम्भय । कृकदाश्वम् । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुवी-मघ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc