भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.28

1.28.1

॥24॥.
-र्व्_1:2।25-
(र्व्_1,28)
यत्र । ग्रावा । पृथु-बुध्नः । ऊर्ध्वः । भवति । सोतवे । उलूखल-सुतानाम् । अव । इत् । ओं इति । इन्द्र । जल्गुलः

1.28.2

यत्र । द्वौ-इव । जघना । अधि-सवन्या । कृता । उलूखल-सुतानाम् । अव । इत् । ओं इति । इन्द्र । जल्गुलः

1.28.3

यत्र । नारी । अप-च्यवम् । उप-च्यवम् । च । शिक्षते । उलूखल-सुतानाम् । अव । इत् । ओं इति । इन्द्र । जल्गुलः

1.28.4

यत्र । मन्थाम् । वि-बध्नते । रश्मीन् । यमितवै-इव । उलूखल-सुतानाम् । अव । इत् । ओं इति । इन्द्र । जल्गुलः

1.28.5

यत् । चित् । हि । त्वम् । गृहे--गृहे । उलूखलक । युज्यसे । इह । द्युमत्-तमम् । वद । जयताम्-इव । दुन्दुभिः

1.28.6

॥25॥.
-र्व्_1:2।26-
उत । स्म । ते । वनस्पते । वातः । वि । वाति । अग्रम् । इत् । अथो इति । इन्द्राय । पातवे । सुनु । सोमम् । उलूखल

1.28.7

आयजी इत्य् आयजी । वाज-सातमा । ता । हि । उच्चा । वि-जर्भृतः । हरीइवेतिहरी-इव । अन्धांसि । बप्सता

1.28.8

ता । नः । अद्य । वनस्पती इति । ऋष्वौ । ऋष्वेभिः । सोतृ-भिः । इन्द्राय । मधु-मत् । सुतम्

1.28.9

उत् । शिष्टम् । चम्वोः । भर । सोमम् । पवित्रे । आ । सृज । नि । धेहि । गोः । अधि । त्वचि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc