भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.27

1.27.1

॥21॥.
-र्व्_1:2।22-
(र्व्_1,27)
अश्वम् । न । त्वा । वार-वन्तम् । वन्दध्यै । अग्निम् । नमोभिः । सम्-राजन्तम् । अध्वराणाम्

1.27.2

सः । घ । नः । सूनुः । शवसा । पृथु-प्रगामा । सु-शेवः । मीढवान् । अस्माकम् । बभूयात्

1.27.3

सः । नः । दूरात् । च । आसात् । च । नि । मर्त्यात् । अघ-योः । पाहि । सदम् । इत् । विश्व-आयुः

1.27.4

इमम् । ओं इति । सु । त्वम् । अस्माकम् । सनिम् । गायत्रम् । नव्यांसम् । अग्ने । देवेषु । प्र । वोचः

1.27.5

आ । नः । भज । परमेषु । आ । वाजेषु । मध्यमेषु । शिक्षा । वस्वः । अन्तमस्य

1.27.6

॥22॥.
-र्व्_1:2।23-
वि-भक्ता । असि । चित्रभानो इतिचित्र-भानो । सिन्धोः । ऊर्मौ । उपाके । आ । सद्यः । दाशुषे । क्षरसि

1.27.7

यम् । अग्ने । पृत्-सु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः । सः । यन्ता । शश्वतीः । इषः

1.27.8

नकिः । अस्य । सहन्त्य । परि-एता । कयस्य । चित् । वाजः । अस्ति । श्रवाय्यः

1.27.9

सः । वाजम् । विश्व-चर्षणिः । अर्वत्-भिः । अस्तु । तरुता । विप्रेभिः । अस्तु । सनिता

1.27.10

जराबोध । तत् । विविड्ढि । विशे--विशे । यज्ञियाय । स्तोमम् । रुद्राय । दृशीकम्

1.27.11

॥23॥.
-र्व्_1:2।24-
सः । नः । महान् । अनि-मानः । धूम-केतुः । पुरु-चन्द्रः । धिये । वाजाय । हिन्वतु

1.27.12

सः । रेवान्-इव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः । उक्थैः । अग्निः । बृहत्-भानुः

1.27.13

नमः । महत्-भ्यः । नमः । अर्भकेभ्यः । नमः । युवभ्यः । नमः । आशिनेभ्यः । यजाम । देवान् । यदि । शक्नवाम । मा । ज्यायसः । शंसम् । आ । वृक्षि । देवाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc