भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.26

1.26.1

॥19॥.
-र्व्_1:2।20-
(र्व्_1,26)
वसिष्व । हि । मियेध्य । वस्त्राणि । ऊर्जाम् । पते । सः । इमम् । नः । अध्वरम् । यज

1.26.2

नि । नः । होता । वरेण्यः । सदा । यविष्ठ । मन्म-भिः । अग्ने । दिवित्मता । वचः

1.26.3

आ । हि । स्म । सूनवे । पिता । आपिः । यजति । आपये । सखा । सख्ये । वरेण्यः

1.26.4

आ । नः । बर्हिः । रिशादसः । वरुणः । मित्रः । अर्यमा । सीदन्तु । मनुषः । यथा

1.26.5

पूर्व्य । होतः । अस्य । नः । मन्दस्व । सख्यस्य । च । इमाः । ओं इति । सु । श्रुधी । गिरः

1.26.6

॥20॥.
-र्व्_1:2।21-
यत् । चित् । हि । शश्वता । तना । देवम्-देवम् । यजामहे । त्वे इति । इत् । हूयते । हविः

1.26.7

प्रियः । नः । अस्तु । विश्पतिः । होताम् । मन्द्रः । वरेण्यः । प्रियाः । सु-अग्नयः । वयम्

1.26.8

सु-अग्नयः । हि । वार्यम् । देवासः । दधिरे । च । नः । सु-अग्नयः । मनामहे

1.26.9

अथ । नः । उभयेषाम् । अमृत । मर्त्यानाम् । मिथः । सन्तु । प्र-शस्तयः

1.26.10

विश्वेभिः । अग्ने । अग्नि-भिः । इमम् । यज्ञम् । इदम् । वचः । चनः । धाः । सहस । यहो इति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc