भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.25

1.25.1

॥15॥.
-र्व्_1:2।16-
(र्व्_1,25)
यत् । चित् । हि । ते । विशः । यथा । प्र । देव । वरुण । व्रतम् । मिनीमसि । द्यवि-द्यवि

1.25.2

मा । नः । वधाय । हत्नवे । जिहीळानस्य । रीरधः । मा । हृणानस्यमन्यवे

1.25.3

वि । मृळीकाय । ते । मनः । रथीः । अश्वम् । न । सम्-दितम् । गीर्भिः । वरुण । सीमहि

1.25.4

परा । हि । मे । वि-मन्यवः । पतन्ति । वस्यः-इष्टये । वयः । न । वसतीः । उप

1.25.5

कदा । क्षत्र-श्रियम् । नरम् । आ । वरुणम् । करामहे । मृळीकाय । उरु-चक्षसम्

1.25.6

॥16॥.
-र्व्_1:2।17-
तत् । इत् । समानम् । आशातेइति । वेनन्ता । न । प्र । युच्छतः । धृत-व्रताय । दाशुषे

1.25.7

वेद । यः । वीनाम् । पदम् । अन्तरिक्षेण । पतताम् । वेद । नावः । समुद्रियः

1.25.8

वेद । मासः । धृत-व्रतः । द्वादश । प्रजावतः । वेद । यः । उप-जायते

1.25.9

वेद । वातस्य । वर्तनिम् । उरोः । ऋष्वस्य । बृहतः । वेद । ये । अधि-आसते

1.25.10

नि । ससाद । धृत-व्रतः । वरुणः । पस्त्यासु । आ । साम्-राज्याय । सु-क्रतुः

1.25.11

॥17॥.
-र्व्_1:2।18-
अतः । विश्वानि । अद्भुता । चिकित्वान् । अभि । पश्यति । कृतानि । या । च । कर्त्वा

1.25.12

सः । नः । विश्वाहा । सु-क्रतुः । आदित्यः । सु-पथा । करत् । प्र । नः । आयूंषि । तारिषत्

1.25.13

बिभ्रत् । द्रापिम् । हिरण्ययम् । वरुणः । वस्त । निः-निजम् । परि । स्पशः । नि । सेदिरे

1.25.14

न । यम् । दिप्सन्ति । दिप्सवः । न । द्रुह्वाणः । जनानाम् । न । देवम् । अभि-मातयः

1.25.15

उत । यः । मानुषेषु । आ । यशः । चक्रे । असामि । आ । अस्माकम् । उदरेषु । आ

1.25.16

॥18॥.
-र्व्_1:2।19-
पराः । मे । यन्ति । धीतयः । गावः । न । गव्यूतीः । अनु । इच्छन्तीः । उरु-चक्षसम्

1.25.17

सम् । नु । वोचावहै । पुनः । यतः । मे । मधु । आभृतम् । होताइव । क्षदसे । प्रियम्

1.25.18

दर्शम् । नु । विश्व-दर्शतम् । दर्शम् । रथम् । अधि । क्षमि । एताः । जुषत । मे । गिरः

1.25.19

इमम् । मे । वरुण । श्रुधि । हवम् । अद्य । च । मृळय । त्वाम् । अवस्युः । आ । चक्रे

1.25.20

त्वम् । विश्वस्य । मेधिर । दिवः । च । ग्मः । च । राजसि । सः यामनि । प्रति । श्रुधि

1.25.21

उत् । उत्-तमम् । मुमुग्धि । नः । वि । पाशम् । मध्यमञ् चृत । अव । अधमानि । जीवसे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc