भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.24

1.24.1

॥12॥.
-र्व्_1:2।13-
(र्व्_1,24)
कस्य । नूनम् । कतमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम । कः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च

1.24.2

अग्नेः । वयम् । प्रथमस्य । अमृतानाम् । मनामहे । चारु । देवस्य । नाम । सः । नः । मह्यै । अदितये । पुनः । दात् । पितरम् । च । दृशेयम् । मातरम् । च

1.24.3

अभि । त्वा । देव । सवितः । ईशानम् । वार्याणाम् । सदा । अवन् । भागम् । ईमहे

1.24.4

यः । चित् । हि । ते । इत्था । भगः । शशमानः । पुरा । निदः । अद्वेषः । हस्तयोः । दधे

1.24.5

भग-भक्तस्य । ते । वयम् । उत् । अशेम । तव । अवसा । मूर्धानम् । रायः । आरभे

1.24.6

॥13॥.
-र्व्_1:2।14-
नहि । ते । क्षत्रम् । न । सहः । न । मन्युम् । वयः । चन । अमी इति । पतयन्तः । आपुः । न । इमाः । आपः । अनि-मिषम् । चरन्तीः । न । ये । वातस्य । प्र-मिनन्ति । अभ्वम्

1.24.7

अबुध्ने । राजा । वरुणः । वनस्य । ऊर्ध्वम् । स्तूपम् । दृते । पूत-दक्षः । नीचीनाः । स्थुः । उपरि । बुध्नः । एषाम् । अस्मे इति । अन्तः । नि-हिताः । केतवः । स्युरितिस्युः

1.24.8

उरुम् । हि । राजा । वरुणः । चकार । सूर्याय । पन्थाम् । अनु-एतवै । ओं इति । अपदे । पादा । प्रति-धातवे । अकः । उत । अप-वक्ता । हृदय-विधः । चित्

1.24.9

शतम् । ते । राजन् । भिषजः । सहस्रम् । उर्वी । गभीरा । सु-मतिः । ते । अस्तु । बाधस्व । दूरे । निः-ऋतिम् । पराचैः । कृतम् । चित् । एनः । प्र । मुमुग्धि । अस्मत्

1.24.10

अमी इति । ये । ऋक्षाः । नि-हितासः । उच्चा । नक्तम् । दृदश्रे । कुह । चित् । दिवा । ईयुः । अदब्धानि । वरुणस्य । व्रतानि । वि-चाकशत् । चन्द्रमाः । नक्तम् । एति

1.24.11

॥14॥.
-र्व्_1:2।15-
तत् । त्वा । यामि । ब्रह्मणा । वन्दमानः । तत् । आ । शास्ते । यजमानः । हविः-भिः । अहेळमानः । वरुण । इह । बोधि । उरु-शंस । मा । नः । आयुः । प्र । मोषीः

1.24.12

तत् । इत् । नक्तम् । तत् । दिवा । मह्यम् । आहुः । तत् । अयम् । केतः । हृदः । आ । वि । चष्टे । शुनःशेपः । यम् । अह्वत् । गृभीतः । सः । अस्मान् । राजा । वरुणः । मुमोक्तु

1.24.13

शुनःशेपः । हि । अह्वत् । गृभीतः । त्रिषु । आदित्यम् । द्रु-पदेषु । बद्धः । अव । एनम् । राजा । वरुणः । ससृज्यात् । विद्वान् । अदब्धः । वि । मुमोक्तु । पासान्

1.24.14

अव । ते । हेळः । वरुण । नमः-भिः । अव । यज्ञेभिः । ईमहे । हविः-भिः । क्षयन् । अस्मभ्यम् । असुर । प्रचेतैतिप्र-चेतः । राजन् । एनांसि । शिश्रथः । कृतानि

1.24.15

उत् । उत्-तमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्ययमम् । श्रथय । अथ । वयम् । आदित्य । व्रते । तव । अनागसः । अदितये । स्याम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc