ऋग्वेदसंहिता, पदपाठ · अध्याय 1.23
॥7॥.
-र्व्_1:2।8-
(र्व्_1,23)
तीव्राः । सोमासः । आ । गहि । आशीः-वन्तः । सुताः । इमे । वायो इति । तान् । प्र-स्थितान् । पिब
उभा । देवा । दिवि-स्पृशा । इन्द्रवायू इति । हवामहे । अस्य । सोमस्य । पीतये
इन्द्रवायू इति । मनः-जुवा । विप्राः । हवन्ते । ऊतये । सहस्र-अक्षा । धियः । पती इति
मित्रम् । वयम् । हवामहे । वरुणम् । सोम-पीतये । जज्ञाना । पूत-दक्षसा
ऋतेन । यौ । ऋत-वृधौ । ऋतस्य । ज्योतिषः । पती इति । ता । मित्रावरुणा । हुवे
॥8॥.
-र्व्_1:2।9-
वरुणः । प्र-अविता । भुवत् । मित्रः । विश्वाभिः । ऊति-भिः । करताम् । नः । सु-राधसः
मरुत्वन्तम् । हवामहे । इन्द्रम् । आ । सोम-पीतये । स-जूः । गणेन । तृम्पतु
इन्द्र-ज्येष्ठाः । मरुत्-गणाः । देवासः । पूष-रातयः । विश्वे । मम । श्रुत । हवम्
हत । वृत्रम् । सु-दानव । इन्द्रेण । सहसा । युजा । मा । नः । दुः-शंसः । ईशत
व्विश्वान् । देवान् । हवामहे । मरुतः । सोम-पीतये । उग्राः । हि । पृश्नि-मातरः
॥9॥.
-र्व्_1:2।10-
जयताम्-इव । तन्यतुः । मरुताम् । एति । धृष्णु-या । यत् । शुभम् । याथन । नरः
हस्कारात् । वि-द्युतः । परि । अतः । जाताः । अवन्तु । नः । मरुतः । मृळयन्तु । नः
आ । पूषन् । चित्र-बर्हिषम् । आघृणे । धरुणम् । दिवः । आ । अज । नष्टम् । यथा । पशुम्
पूषा । राजानम् । आघृणिः । अप-गूळ्हम् । गुहा । हितम् । अविन्दत् । चित्र-बर्हिषम्
उतो इति । सः । मह्यम् । इन्दु-भिः । षट् । युक्तान् । अनु-सेसिधत् । गोभिः । यवम् । न । चर्कृषत्
॥10॥.
-र्व्_1:2।11-
अम्बयः । यन्ति । अध्व-भिः । जामयः । अध्वरि-यताम् । पृञ्चतीः । मधुना । पयः
अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह । ताः । नः । हिन्वन्तु । अध्वरम्
अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः । सिन्धु-भ्यः । कर्त्वम् । हविः
अप्-सु । अन्तः । अमृतम् । अप्-सु । भेषजम् । अपाम् । उत । प्र-शस्तये । देवाः । भवत । वाजिनः
अप्-सु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा । अग्निम् । च । विश्व-शम्भुवम् । आपः । च । विश्व-भेषजीः
॥11॥.
-र्व्_1:2।12-
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम । ज्योक् । च । सूर्यम् । दृशे
इदम् । आपः । प्र । वहत । यत् । किम् । च । दुरितम् । मयि । यत् । वा । अहम् । अभि-दुद्रोह । यत् । वा । शेपे । उत । अनृतम्
आपः । अद्य । अनु । अचारिषम् । रसेन । सम् । अगस्महि । पयस्वान् । अग्ने । आ । गहि । तम् । मा । सम् । सृज । वर्चसा
सम् । मा । अग्ने । वर्चसा । सृज । सम् । प्र-जया । सम् । आयुषा । विद्युः । मे । अस्य । देवाः । इन्द्रः । विद्यात् । सह । ऋषि-भिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0