भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.22

1.22.1

॥3॥.
-र्व्_1:2।4-
(र्व्_1,22)
प्रातः-युजा । वि । बोधय । अश्विनौ । आ । इह । गच्छताम् । अस्य । सोमस्य । पीतये

1.22.2

या । सु-रथा । रथि-तमा । उभा । देवा । दिवि-स्पृशा । अश्विना । ता । हवामहे

1.22.3

या । वाम् । कशा । मधु-मती । अश्विना । सूनृतावती । तया । यज्ञम् । मिमिक्षतम्

1.22.4

नहि । वाम् । अस्ति । दूरके । यत्र । रथेन । गच्छथः । अश्विना । सोमिनः । गृहम्

1.22.5

हिरण्य-पाणिम् । ऊतये । सवितारम् । उप । ह्वये । सः । चेत्ता । देवता । पदम्

1.22.6

॥4॥.
-र्व्_1:2।5-
अपाम् । नपातम् । अवसे । सवितारम् । उप । स्तुहि । तस्य । व्रतानि । उश्मसि

1.22.7

वि-भक्तारम् । हवामहे । वसोः । चित्रस्य । राधसः । सवितारम् । नृ-चक्षसम्

1.22.8

सखायः । आ । नि । सीदत । सविता । स्तोम्यः । नु । नः । दाता । राधांसि । शुम्भति

1.22.9

अग्ने । पत्नीः । इह । आ । वह । देवानाम् । उशतीः । उप । त्वष्टारम् । सोम-पीतये

1.22.10

आ । ग्नाः । अग्ने । इह । अवसे । होत्राम् । यविष्ठ । भारतीम् । वरूत्रीम् । धिषणाम् । वह

1.22.11

॥5॥.
-र्व्_1:2।6-
अभि । नः । देवीः । अवसा । महः । शर्मणा । नृ-पत्नीः । अच्छिन्न-पत्राः । सचन्ताम्

1.22.12

इह । इन्द्राणीम् । उप । ह्वये । वरुणानीम् । स्वस्तये । अग्नायीम् । सोम-पीतये

1.22.13

मही । द्यौः । पृथिवी । च । नः । इमम् । यज्ञम् । मिमिक्षताम् । पिपृताम् । नः । भरीम-भिः

1.22.14

तयोः । इत् । घृत-वत् । पयः । विप्राः । रिहन्ति । धीति-भिः । गन्धर्वस्य । ध्रुवे । पदे

1.22.15

स्योना । पृथिवि । भव । अनृक्षरा । नि-वेशनी । यच्छ । नः । शर्म । स-प्रथः

1.22.16

॥6॥.
-र्व्_1:2।7-
अतः । देवाः । अवन्तु । नः । यतः । विष्णुः । वि-चक्रमे । पृथिव्याः । सप्त । धाम-भिः

1.22.17

इदम् । विष्णुः । वि । चक्रमे । त्रेधा । नि । दधे । पदम् । सम्-ऊळ्हम् । अस्य । पांसुरे

1.22.18

त्रीणि । पदा । वि । चक्रमे । विष्णुः । गोपाः । अदाभ्यः । अतः । धर्माणि । धारयन्

1.22.19

विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखा

1.22.20

तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः । दिवि-इव । चक्षुः । आततम्

1.22.21

तत् । विप्रासः । विपन्यवः । जागृ-वांसः । सम् । इन्धते । विष्णोः । यत् । परमम् । पदम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc