ऋग्वेदसंहिता, पदपाठ · अध्याय 1.21
॥2॥.
-र्व्_1:2।3-
(र्व्_1,21)
इह । इन्द्राग्नी इति । उप । ह्वये । तयोः । इत् । स्तोमम् । उश्मसि । ता । सोमम् । सोम-पातमा
ता । यज्ञेषु । प्र । शंसत । इन्द्राग्नी इति । शुम्भत । नरः । ता । गायत्रेषु । गायत
ता । मित्रस्य । प्र-शस्तये । इन्द्राग्नी इति । ता । हवामहे । सोम-पा । सोम-पीतये
उग्रा । सन्ता । हवामहे । उप । इदम् । सवनम् । सुतम् । इन्द्राग्नी इति । आ । इह । गच्छताम्
ता । महान्ता । सदस्पती इति । इन्द्राग्नी इति । रक्षः । उब्जतम् । अप्रजाः । सन्तु । अत्रिणः
तेन । सत्येन । जागृतम् । अधि । प्र-चेतुने । पदे । इन्द्राग्नी इति । शर्म । यच्छतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0