भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.20

1.20.1

॥37॥.
-र्व्_1:2।1-
(र्व्_1,20)
अयम् । देवाय । जन्मने । स्तोमः । विप्रेभिः । आसया । अकारि । रत्न-धातमः

1.20.2

ये । इन्द्राय । वचः-युजा । ततक्षुः । मनसा । हरी इति । शमाईभिः । यज्ञम् । आशत

1.20.3

तक्षन् । नासत्याभ्याम् । परि-ज्मानम् । सु-खम् । रथम् । तक्षन् । धेनुम् । सबः-दुघाम्

1.20.4

युवाना । पितरा । पुनरिति । सत्य-मन्त्राः । ऋजू-यवः । ऋभवः । विष्टी । अक्रत

1.20.5

सम् । वः । मदासः । अग्मत । इन्द्रेण । च । मरुत्वता । आदित्येभिः । च । राज-भिः

1.20.6

॥1॥.
-र्व्_1:2।2-
उत । त्यम् । चमसम् । नवम् । त्वष्टुः । देवस्य । निः-कृतम् । अकर्त । चतुरः । पुनरिति

1.20.7

ते । नः । रत्नानि । धत्तन । त्रिः । आ । साप्तानि । सुन्वते । एकम्-एकम् । सुशस्ति-भिः

1.20.8

अधारयन्त । वह्नयः । अभजन्त । सु-कृत्यया । भागम् । देवेषु । यज्ञियम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc