भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.19

1.19.1

॥35॥.
-र्व्_1:1।36-
(र्व्_1,19)
प्रति । त्यम् । चारुम् । अध्वरम् । गो--पीथाय । प्र । हूयसे । मरुत्-भिः । अग्ने । आ । गहि

1.19.2

नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः । मरुत्-भिः । अग्ने । आ । गहि

1.19.3

ये । महः । रजसः । विदुः । विश्वे । देवासः । अद्रुहः । मरुत्-भिः । अग्ने । आ । गहि

1.19.4

ये । उग्राः । अर्कम् । आनृचुः । अनाधृष्टासः । ओजसा । मरुत्-भिः । अग्ने । आ । गहि

1.19.5

ये । शुभ्राः । घोर-वर्पसः । सु-क्षत्रासः । रिशादसः । मरुत्-भिः । अग्ने । आ । गहि

1.19.6

॥36॥.
-र्व्_1:1।37-
ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते । मरुत्-भिः । अग्ने । आ । गहि

1.19.7

ये । ईङ्खयन्ति । पर्वतान् । तिरः । समुद्रम् । अर्णवम् । मरुत्-भिः । अग्ने । आ । गहि

1.19.8

आ । ये । तन्वन्ति । रश्मि-भिः । तिरः । समुद्रम् । ओजसा । मरुत्-भिः । अग्ने । आ । गहि

1.19.9

अभि । त्वा । पूर्व-पीतये । सृजामि । सोम्यम् । मधु । मरुत्-भिः । अग्ने । आ । गहि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc