ऋग्वेदसंहिता, पदपाठ · अध्याय 1.183
॥28॥.
-र्व्_2:4।29-
(र्व्_1,183)
तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रि-वन्धुरः । वृषणा । यः । त्रि-चक्रः । येन । उप-याथः । सु-कृतः । दुरोणम् । त्रि-धातुना । पतथः । विः । न । पर्णैः
सु-वृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतु-मन्ता । अनु । पृक्षे । वपुः । वपुष्या । सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथेइति
आ । तिष्ठतम् । सु-वृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् । येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च
मा । वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत । मा । अति । धक्तम् । अयम् । वाम् । भागः । नि-हितः । इयम् । गीः । दस्रौ । इमे । वाम् । नि-धयः । मधूनाम्
युवम् । गोतमः । पुरु-मीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् । दिशम् । न । दिष्टाम् । ऋजुयाइव । यन्ता । आ । मे । हवम् । नासत्या । उप । यातम्
अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि । आ । इह । यातम् । पथि-भिः । देव-यानैः । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0