ऋग्वेदसंहिता, पदपाठ · अध्याय 1.182
॥26॥.
-र्व्_2:4।27-
(र्व्_1,182)
अभाऊत् । इदम् । वयुनम् । ओ इति । सु । भूषत । रथः । वृषण्-वान् । मदत । मनीषिणः । धियम्-जिन्वा । धिष्ण्या । विश्पलावसूइति । दिवः । नपाता । सु-कृते । शुचि-व्रता
इन्द्र-तमा । हि । धिष्ण्या । मरुत्-तमा । दस्रा । दंसिष्ठा । रथ्या । रथि-तमा । पूणर्म् । रथम् । वहेथेइति । मध्वः । आचितम् । तेन । दाश्वांसम् । उप । याथः । अश्विना
किम् । अत्र । दस्रा । कृणुथः । किम् । आसाथे । जनः । यः । कः । चित् । अहविः । महीयते । अति । क्रमिष्टम् । जुरतम् । पणेः । असुम् । ज्योतिः । विप्राय । कृणुतम् । वचस्यवे
जम्भयतम् । अभितः । रायतः । शुनः । हतम् । मृधः । विदथुः । तानि । अश्विना । वाचम्-वाचम् । जरितुः । रत्निनीम् । कृतम् । उभा । संसम् । नासत्या । अवतम् । मम
युवम् । एतम् । चक्रतुः । सिन्धुषु । प्लवम् । आत्मन्-वन्तम् । पक्षिणम् । तौग्र्याय । कम् । येन । देव-त्रा । मनसा । निः-ऊहथुः । सु-पप्तनि । पेतथुः । क्षोदसः । महः
॥27॥.
-र्व्_2:4।28-
अव-विद्धम् । तौग्र्यम् । अप्-सु । अन्तः । अनारम्भणे । तमसि । प्र-विद्धम् । चतस्रः । नावः । जठलस्य । जुष्टाः । उत् । अश्वि-भ्याम् । इषिताः । पारयन्ति
कः । स्वित् । वृक्षः । निः-स्थितः । मध्ये । अर्णसः । यम् । तौग्र्यः । नाधितः । परि-अषस्वजत् । पर्णा । मृगस्य । पतरोः-इव । आरभे । उत् । अश्विना । ऊहथुः । श्रोमताय । कम्
तत् । वाम् । नरा । नासत्यौ । अनु । स्यात् । यत् । वाम् । मानासः । उचथम् । अवोचन् । अस्मात् । अद्य । सदसः । सोम्यात् । आ । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0