ऋग्वेदसंहिता, पदपाठ · अध्याय 1.184
॥29॥.
-र्व्_2:5।1-
(र्व्_1,184)
ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः । नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाः-तराय
अस्मे इति । ओं इति । सु । वृषणा । मादयेथाम् । उत् पणीन् । हतम् । ऊर्म्या । मदन्ता । श्रुतम् । मे । अच्छोक्ति-भिः । मतीनाम् । एष्टा । नरा । नि-चेतारा । च । कर्णैः
श्रिये । पाऊषन् । इषुकृताइव । देवा । नासत्या । वहतुम् । सूर्यायाः । वच्यन्ते । वाम् । ककुहाः । अप्-सु । जाताः । युगा । जूर्णाइव । वरुणस्य । भूरेः
अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम् । मान्यस्य । कारोः । अनु । यत् । वाम् । श्रवस्या । सुदानूइतिसु-दानू । सु-वीर्याय । चर्षणयः । मदन्ति
एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघ-वाना । सु-वृक्ति । यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये । नासत्या । मदन्ता
अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि । आ । इह । यातम् । पथि-भिः । देव-यानैः । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0