ऋग्वेदसंहिता, पदपाठ · अध्याय 1.181
॥24॥.
-र्व्_2:4।25-
(र्व्_1,181)
कत् । ओं इति । प्रेष्ठौ । इषाम् । रयीणाम् । अध्वर्यन्ता । यत् । उत्-निनीथः । अपाम् । अयम् । वाम् । यज्ञः । अकृत । प्र-शश्तिम् । वसुधिती इतिवसु-धिती । अवितारा । जनानाम्
आ । वाम् । अश्वासः । शुचयः । पयः-पाः । वात-रंहसः । दिव्यासः । अत्याः । मनः-जुवः । वृषणः । वीत-पृष्ठाः । आ । इह । स्व-राजः । अश्विना । वहन्तु
आ । वाम् । रथः । अवनिः । न । प्रवत्वान् । सृप्र-वन्धुरः । सुविताय । गम्याः । वृष्णः । स्थातारा । मनसः । जवीयान् । अहम्-पूर्वः । यजतः । धिष्ण्या । यः
इह-इह । जाता । सम् । अवावशीताम् । अरेपसा । तन्वा । नाम-भिः । स्वैः । जिष्णुः । वाम् । अन्यः । सु-मखस्य । सूरिः । दिवः । अन्यः । सु-भगः । पुत्रः । ऊहे
प्र । वाम् । नि-चेरुः । ककुहः । वशान् । अनु । पिशङ्ग-रूपः । सदनानि । गम्याः । हरी । अन्यस्य । पीपयन्त । वाजैः । मथ्नाअ । रजांसि । अश्विना । वि । घोषैः
॥25॥.
-र्व्_2:4।26-
प्र । वाम् । शरत्-वान् । वृषभः । न । निष्षाट् । पूर्वीः । इषः । चरति । मध्वः । इष्णन् । एवैः । अन्यस्य । पीपयन्त । वाजैः । वेषन्तीः । ऊर्ध्वाः । नद्यः । नः । आ । अगुः
असर्जि । वाम् । स्थविरा । वेधसा । गीः । बाळ्हे । अश्विना । त्रेधा । क्षरन्ती । उप-स्तुतौ । अवतम् । नाधमानम् । यामन् । अयामन् । शृणुतम् । हवम् । मे
उत । स्या । वाम् । रुशतः । वप्ससः । गीः । त्रि-बर्हिषि । सदसि । पिन्वते । नॄन् । वृषा । वाम् । मेघः । वृषणा । पीपाय । गोः । न । सेके । मनुषः । दशस्यन्
युवाम् । पूषाइव । अश्विना । पुरम्-धिः । अग्निम् । उषाम् । न । जरते । हविष्मान् । हुवे । यत् । वाम् । वरिवस्या । गृणानः । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0