भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.180

1.180.1

॥22॥.
-र्व्_2:4।23-
(र्व्_1,180)
युवः । रजांसि । सु-यमासः । अश्वाः । रथः । यत् । वाम् । परि । अर्णांसि । दीयत् । हिरण्यया । वाम् । पवयः । प्रुषायन् । मध्वः । पिबन्तौ । उषसः । सचेथेइति

1.180.2

युवम् । अत्यस्य । अव । नक्षथः । यत् । वि-पत्मनः । नर्यस्य । प्र-यज्योः । स्वसा । यत् । वाम् । विश्वगूर्ती इतिविश्व-गूर्ती । भराति । वाजाय । ईटे । मधु-पौ । इषे । च

1.180.3

युवम् । पयः । उस्रियायाम् । अधत्तम् । पक्वम् । आमायाम् । अव । पूर्व्यम् । गोः । अन्तः । यत् । वनिनः । वाम् । ऋतप्सूइत्य् ऋत-प्सू । ह्वारः । न । शुचिः । यजते । हविष्मान्

1.180.4

युवम् । ह । घर्मम् । मधु-मन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे । तत् । वाम् । नरौ । अश्विना । पश्वः-इष्टिः । रथ्याइव । चक्रा । प्रति । यन्ति । मध्वः

1.180.5

आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः । अपः । क्षोणी इति । सचते । माहिना । वाम् । जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा

1.180.6

॥23॥.
-र्व्_2:4।24-
नि । यत् । युवेथेइति । नि-युतः । सुदानूइतिसु-दानू । उप । स्वधाभिः । सृजथः । पुरम्-धिम् । प्रेषत् । वेषत् । वातः । न । सूरिः । आ । महे । ददे । सु-व्रतः । न । वाजम्

1.180.7

वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हित-वान् । अध । चित् । हि । स्म । अश्विनौ । अनिन्द्या । पाथः । हि । स्म । वृषणौ । अन्ति-देवम्

1.180.8

युवाम् । चित् । हि । स्म । अश्विनौ । अनु । द्यून् । वि-रुद्रस्य । प्र-स्रवणस्य । सातौ । अगस्त्यः । नराम् । नृषु । प्र-शस्तः । काराधुनी-इव । चितयत् । सहस्रैः

1.180.9

प्र । यत् । वहेथेइति । महिना । रथस्य । प्र । स्यन्द्रा । याथः । मनुषः । न । होता । धत्तम् । सूरि-भ्यः । उत । वा । सु-अश्व्यम् । नासत्या । रयि-साचः । स्याम

1.180.10

तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । स्तोमैः । अश्विना । सुविताय । नव्यम् । अरिष्ट-नेमिम् । परि । द्याम् । इयानम् । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc