भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.175

1.175.1

॥17॥.
-र्व्_2:4।18-
(र्व्_1,175)
मत्सि । अपायि । ते । महः । पात्रस्य-इव । हरि-वः । मत्सरः । मदः । वृषा । ते । वृष्णे । इन्दुः । वाजी । सहस्र-सातमः

1.175.2

आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः । सह-वान् । इन्द्र । सानसिः । पृतनाषाट् । अमर्त्यः

1.175.3

त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् । सह-वान् । दस्युम् । अव्रतम् । ओषः । पात्रम् । न । शोचिषा

1.175.4

मुषाय । सूर्य । कवे । चक्रम् । ईशानः । ओजसा । वह । शुष्णाय । वधम् । कुत्सम् । वातस्य । अश्वैः

1.175.5

शुष्मिन्-तमः । हि । ते । मदः । द्युम्निन्-तमः । उत । क्रतुः । वृत्र-घ्ना । वर् इवः-विदा । मंसीष्ठाः । अश्व-सातमः

1.175.6

यथा । पूर्वेभ्यः । जरितृ-भ्यः । इन्द्र । मयः-इव । आपः । न । तृष्यते । बभूथ । ताम् । अनु । त्वा । नि-विदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc