ऋग्वेदसंहिता, पदपाठ · अध्याय 1.176
॥18॥.
-र्व्_2:4।19-
(र्व्_1,176)
मत्सि । नः । वस्यः-इष्टये । इन्द्रम् । इन्दो इति । वृषा । आ । विश । ऋघायमाणः । इन्वसि । शत्रुम् । अन्ति । न । विन्दसि
तस्मिन् । आ । वेशय । गिरः । यः । एकः । चर्षणीनाम् । अनु । स्वधा । यम् । उप्यते । यवम् । न । चर्कृषत् । वृषा
यस्य । विश्वानि । हस्तयोः । पञ्च । क्षितीनाम् । वसु । स्पाशयस्व । यः । अस्म-ध्रुक् । दिव्याइव । अशनिः । जहि
असुन्वन्तम् । समम् । जहि । दुः-नसम् । यः । न । ते । मयः । अस्मभ्यम् । अस्य । वेदनम् । दद्धि । सूरिः । चित् । ओहते
आवः । यस्य । द्वि-बर्हसः । अर्केषु । सानुषक् । असत् । आजौ । इन्द्रस्य । इन्दो इति । प्र । आवः । वाजेषु । वाजिनम्
यथा । पूर्वेभ्यः । जरितृ-भ्यः । इन्द्र । मयः-इव । आपः । न । तृष्यते । बभूथ । ताम् । अनु । त्वा । नि-विदम् । जोहवीमि । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0