ऋग्वेदसंहिता, पदपाठ · अध्याय 1.174
॥15॥.
-र्व्_2:4।16-
(र्व्_1,174)
त्वम् । राजा । इन्द्र । ये । च । देवाः । रक्ष । नॄन् । पाहि । असुर । त्वम् । अस्मान् । त्वम् । सत्-पतिः । मघ-वा । नः । तरुत्रः । त्वम् । सत्यः । वसवानः । सहः-दाः
दनः । विशः । इन्द्र । मृध्र-वाचः । सप्त । यत् । पुरः । शर्म । शारदीः । दर्त । ऋणोः । अपः । अनवद्य । अर्णाः । यूने । वृत्रम् । पुरु-कुत्साय । रन्धीः
अज । वृतः । इन्द्र । शूर-पत्नीः । द्याम् । च । येभिः । पुरु-हूत । नूनम् । रक्षः । अग्निम् । अशुषम् । तूर्वयाणम् । सिंहः । न । दमे । अपांसि । वस्तोः
शेषन् । नु । ते । इन्द्र । सस्मिन् । योनौ । प्र-शस्तये । पवीरवस्य । मह्ना । सृजत् । अर्णांसि । अव । यत् । युधा । गाः । तिष्ठत् । हरी इति । धृषता । मृष्ट । वाजान्
वह । कुत्सम् । इन्द्र । यस्मिन् । चाकन् । स्यूमन्यू इति । ऋज्रा । वातस्य । अस्वा । प्र । सूरः । चक्रम् । वृहतात् । अभीके । अभि । स्पृधः । यासिषत् । वज्र-बाहुः
॥16॥.
-र्व्_2:4।17-
जघन्वान् । इन्द्र । मित्रेरून् । चोद-प्रवृद्धः । हरि-वः । अदाशून् । प्र । ये । पश्यन् । अर्यमणम् । सचा । आयोः । त्वया । शूर्ताः । वहमानाः । अपत्यम्
रपत् । कविः । इन्द्र । अर्क-सातौ । क्षाम् । दासाय । उप-बर्हणीम् । करितिकः । करत् । तिस्रः । मघ-वा । दानु-चित्राः । नि । दुर्योणे । कुयवाचम् । मृधि । श्रेत्
सना । ता । ते । इन्द्र । नव्याः । आ । अगुः । सहः । नभः । अवि-रणाय । पूर्वीः । भिनत् । पुरः । न । भिदः । अदेवीः । ननमः । वधः । अदेवस्य । पीयोः
त्वम् । धुनिः । इन्द्र । धुनि-मतीः । ऋणोः । अपः । सीराः । न । स्रवन्तीः । प्र । यत् । समुद्रम् । अति । शूर । पर्षि । पारय । तुर्वशम् । यदुम् । स्वस्ति
त्वम् । अस्माकम् । इन्द्र । विश्वध । स्याः । अवृक-तमः । नरान् । नृ-पाता । सः । नः । विश्वासाम् । स्पृधाम् । सहः-दाः । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0