भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.173

1.173.1

॥12॥.
-र्व्_2:4।13-
(र्व्_1,173)
गायत् । साम । नभन्यम् । यथा । वेः । अर्चाम । तत् । ववृधानम् । स्वः-वत् । गावः । धेनवः । बर्हिषि । अदब्धाः । आ । यत् । सद्मानम् । दिव्यम् । विवासान्

1.173.2

अर्चत् । वृषा । वृष-भिः । स्व-इदुहव्यैः । मृगः । न । अश्नः । अति । यत् । जुगुयार्त् । प्र । मन्दयुः । मनाम् । गूर्त । होता । भरते । मर्यः । मिथुना । यजत्रः

1.173.3

नक्षत् । होता । परि । सद्म । मिता । यन् । भरत् । गर्भम् । आ । शरदः । पृथिव्याः । क्रन्दत् । अश्वः । नयमानः । रुवत् । गौः । अन्तः । दूतः । न । रोदसी इति । चरत् । वाक्

1.173.4

ता । कर्म । अष-तरा । अस्मै । प्र । च्यौत्नानि । देव-यन्तः । भरन्ते । जुजोषत् । इन्द्रः । दस्म-वर्चाः । नासत्याइव । सुग्म्यः । रथे--स्थाः

1.173.5

तम् । उंम् इति । स्तुहि । इन्द्रम् । यः । ह । सत्वा । यः । शूरः । मघवा । यः । रथे--स्थाः । प्रतीचः । चित् । योधीयान् । वृषण्-वान् । ववव्रुषः । चित् । तमसः । वि-हन्ता

1.173.6

॥13॥.
-र्व्_2:4।14-
प्र । यत् । इत्था । महिना । नृ-भ्यः । अस्ति । अरम् । रोदसी इति । कक्ष्ये इति । न । अस्मै । सम् । विव्ये । इन्द्रः । वृजनम् । न । भूम । भर्ति । स्वधावान् । ओपशम्-इव । द्याम्

1.173.7

समत्-सु । त्वा । शूर । सताम् । उराणम् । प्रपथिन्-तमम् । परि-तंसयध्यै । सजोषसः । इन्द्रम् । मदे । क्षोणीः । सूरिम् । चित् । ये । अनु-मदन्ति । वाजैः

1.173.8

एव । हि । ते । शम् । सवना । समुद्रे । आपः । यत् । ते । आसु । मदन्ति । देवीः । विश्वा । ते । अनु । जोष्या । भूत् । गौः । सूरीन् । चित् । यदि । धिषा । वेषि । जनान्

1.173.9

असाम । यथा । सु-सखायः । एन । सु-अभिष्टयः । नराम् । न । शंसैः । असत् । यथा । नः । इन्द्रः । वन्दने--स्थाः । तुरः । न । कर्म । नयमानः । उक्था

1.173.10

वि-स्पर्धसः । नराम् । न । शंसैः । अस्माक । असत् । इन्द्रः । वज्र-हस्तः । मित्र-युवः । न । पूः-पतिम् । सु-शिश्टौ । मध्य-युवः । उप । शिक्षन्ति । यज्ञैः

1.173.11

॥14॥.
-र्व्_2:4।15-
यज्ञः । हि । स्म । इन्द्रम् । कः । चित् । ऋन्धन् । जुहुर्ताणः । चित् । मनसा । परि-यन् । तीर्थे । न । अच्छ । ततृषाणम् । ओकः । दीर्घः । न । सिध्रम् । आ । कृणोति । अध्वा

1.173.12

मो इति । सु । णः । इन्द्र । अत्र । पृत्-सु । देवैः । अस्ति । हि । स्म । ते । शुष्मिन् । अव-याः । महः । चित् । यस्य । मीळ्हुषः । यव्या । हविष्मतः । मरुतः । वन्दते । गीः

1.173.13

एषः । स्तोमः । इन्द्र । तुभ्यम् । अस्मे इति । एतेन । गातुम् । हरि-वः । विदः । नः । आ । नः । ववृत्याः । सुविताय । देव । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc