भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.170

1.170.1

॥9॥.
-र्व्_2:4।10-
(र्व्_1,170)
न । नूनम् । अस्ति । नो इति । श्वः । कः । तत् । वेद । यत् । अद्भुतम् । अन्यस्य । चित्तम् । अभि । सम्-चरेण्यम् । उत । आधीतम् । वि । नश्यति

1.170.2

किम् । नः । इन्द्र । जिघांससि । भ्रातरः । मरुतः । तव । तेभिः । कल्पस्व । साधु-या । मा । नः । सम्-अरणे । वधीः

1.170.3

किम् । न । भ्रातः । अगस्त्य । सखा । सन् । अति । मन्यसे । विद्म । हि । ते । यथा । मनः । अस्मभ्यम् । इत् । न । दित्ससि

1.170.4

अरम् । कृण्वन्तु । वेदिम् । सम् । अग्निम् । इन्धताम् । पुरः । तत्र । अमृतस्य । चेतनम् । यज्ञम् । ते । तनवावहै

1.170.5

त्वम् । ईशिषे । वसु-पते । वसूनाम् । त्वम् । मित्राणाम् । मित्र-पते । धेष्ठः । इन्द्र । त्वम् । मरुत्-भिः । सम् । वदस्व । अध । प्र । अशान । ऋतु-था । हवींषि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc