ऋग्वेदसंहिता, पदपाठ · अध्याय 1.171
॥10॥.
-र्व्_2:4।11-
(र्व्_1,171)
प्रति । वः । एना । नमसा । अहम् । एमि । सु-उक्तेन । भिक्षे । सु-मतिम् । तुराणाम् । रराणता । मरुतः । वेद्याभिः । नि । हेळः । धत्त । वि । मुचध्वम् । अश्वान्
एषः । वः । स्तोमः । मरुतः । नमस्वान् । हृदा । तष्टः । मनसा । धायि । देवाः । उप । ईम् । आ । यात । मनसा । जुषाणाः । यूयम् । हि । स्थ । नमसः । इत् । वृधासः
स्तुतासः । नः । मरुतः । मृळयन्तु । उत । स्तुतः । मघ-वा । शम्-भविष्ठः । ऊर्ध्वा । नः । सन्तु । कोम्या । वनानि । अहानि । विश्वा । मरुतः । जिगीषा
अस्मात् । अहम् । तविषात् । ईषमाणः । इन्द्रात् । भिया । मरुतः । रेजमानः । युष्मभ्यम् । हव्या । नि-शितानि । आसन् । तानि । आरे । चकृम । मृळत । नः
येन । मानासः । चितयन्ते । उस्राः । वि-उष्टिषु । शवसा । शश्वतीनाम् । सः । नः । मरुत्-भिः । वृषभ । श्रवः । धाः । उग्रः । उग्रेभिः । स्थविरः । सहः-दाः
त्वम् । पाहि । इन्द्र । सहीयसः । नॄन् । भव । मरुत्-भिः । अवयात-हेळाः । सु-प्रकेतेभिः । ससहिः । दधानः । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0