भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.169

1.169.1

॥7॥.
-र्व्_2:4।8-
(र्व्_1,169)
महः । चित् । त्वम् । इन्द्र । यतः । एतान् । महः । चित् । असि । त्यजसः । वरूता । सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा

1.169.2

अयुज्रन् । ते । इन्द्र । विश्व-कृष्टीः । विदानासः । निः-सिधः । मर्त्य-त्रा । मरुताम् । पृत्सुतिः । हासमाना । स्वः-मीळ्हस्य । प्र-धनस्य । सातौ

1.169.3

अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति । अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् आपः । न । द्वीपम् । दधति । प्रयांसि

1.169.4

त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाइव । रातिम् । स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः । पीपयन्त । वाजैः

1.169.5

त्वे इति । रायः । इन्द्र । तोश-तमाः । प्र-नेतारः । कस्य । चित् । ऋत-योः । ते । सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्ति-इव । देवाः

1.169.6

॥8॥.
-र्व्_2:4।9-
प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व । अध । यत् । एषाम् । पृथु-बुध्नासः । एताः । तीर्थे । न । अर्यः । पैंस्यानि । तस्थुः

1.169.7

प्रति । घोराणाम् । एतानाम् । अयासाम् । मरुताम् । शृण्वे । आयताम् । उपब्दिः । ये । मर्त्यम् । पृतनायन्तम् । ऊमैः । ऋण-वानम् । न । पतयन्त । सर्गैः

1.169.8

त्वम् । मानेभ्यः । इन्द्र । विश्व-जन्या । रद । मरुत्-भिः । शुरुधः । गो--अग्राः । स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc