ऋग्वेदसंहिता, पदपाठ · अध्याय 1.168
॥5॥.
-र्व्_2:4।6-
(र्व्_1,168)
यज्ञायज्ञा । वः । समना । तुतुर्वणिः । धियम्-धियम् । वः । देव-याः । ओं इति । दधिध्वे । आ । वः । अर्वाचः । सुविताय । रोदस्योः । महे । ववृत्याम् । अवसे । सुवृक्ति-भिः
वव्रासः । न । ये । स्व-जाः । स्व-तवसः । इषम् । स्वः । अभि-जायन्त । धूतयः । सहस्रियासः । अपाम् । न । ऊर्मयः । आसा । गावः । वन्द्यासः । न । उक्षणः
सोमासः । न । ये । सुताः । तृप्त-अंशवः । हृत्-सु । पीतासः । दुवसः । न । आसते । आ । एषाम् । अंसेषु । रम्भिणी-इव । ररभे । हस्तेषु । खादिः । च । कृतिः । च । सम् । दधे
अव । स्व-युक्ताः । दिवः । आ । वृथा । ययुः । अमर्त्याः । कशया । चोदत । त्मना । अरेणवः । तुवि-जाताः । अचुच्यवुः । दृळ्हानि । चित् । मरुतः । भ्राजद्-ऋष्टयः
कः । वः । अन्तः । मरुतः । ऋष्टि-विद्युतः । रेजति । त्मना । हन्वाइव । जिह्वया । धन्व-च्युतः । इषाम् । न । यामनि । पुरु-प्रैषाः । अहन्यः । न । एतशः
॥6॥.
-र्व्_2:4।7-
क्व । स्वित् । अस्य । रजसः । महः । परम् । क्व । अवरम् । मरुतः । यस्मिन् । आयय । यत् । च्यवयथ । विथुराइव । सम्-हितम् । वि । अद्रिणा । पतथ । त्वेषम् । अर्णवम्
सातिः । न । वः । अम-वती । स्वः-वती । त्वेषा । वि-पाका । मरुतः । पिपिष्वती । भद्रा । वः । रातिः । पृणतः । न । दक्षिणा । पृथु-ज्रयी । असुर्याइव । जञ्जती
प्रति । स्तोभन्ति । सिन्धवः । पवि-भ्यः । यत् । अभ्रियाम् । वाचम् । उत्-ईरयन्त् इ । अव । स्मयन्त । वि-द्युतः । पृथिव्याम् । यदि । घृतम् । मरुतः । प्रुष्णुवन्ति
असूत । पृश्निः । महते । रणाय । त्वेषम् । अयासाम् । मरुताम् । अनीकम् । ते । सप्सरासः । अजनयन्त । अभ्वम् । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन्
एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः । आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0