ऋग्वेदसंहिता, पदपाठ · अध्याय 1.167
॥3॥.
-र्व्_2:4।4-
(र्व्_1,167)
सहस्रम् । ते । इन्द्र । ऊतयः । नः । सहस्रम् । इषः । हरि-वः । गूर्त-तमाः । सहस्रम् । रायः । मादयध्यै । सहस्रिणः । उप । नः । यन्तु । वाजाः
आ । नः । अवः-भिः । मरुतः । यान्तु । अच्छ । ज्येष्ठेभिः । वा । बृहत्-दिवैः । सु-मायाः । अध । यत् । एषाम् । नि-युतः । परमाः । समुद्रस्य । चित् । धनयन्त । पारे
मिम्यक्ष । येषु । सु-धिता । घृताची । हिरण्य-निर्निक् । उपरा । न । ऋष्टिः । गुहा । चरन्ती । मनुषः । न । योषा । सभावती । विदथ्याइव । सम् । वाक्
परा । शुभ्राः । अयासः । यव्या । साधारण्याइव । मरुतो । मिमिक्षुः । न । रोदसी इति । अप । नुदन्त । घोराः । जुषन्त । वृधम् । सख्याय । देवाः
जोषत् । यत् । ईम् । असुर्या । सचध्यै । विसित-स्तुका । रोदसी । नृ-मनाः । । आ । सूर्याइव । विधतः । रथम् । गात् । त्वेष-प्रतीका । नभसः । न । इत्या
॥4॥.
-र्व्_2:4।5-
आ । अस्थापयन्त । युवतिम् । युवानः । शुभे । नि-मिश्लाम् । विदथेषु । पज्राम् । अर्कः । यत् । वः । मरुतः । हविष्मान् । गायत् । गाथम् । सुत-सोमः । दुवस्यन्
प्र । तम् । विवक्मि । वक्म्यः । यः । एषाम् । मरुताम् । महिमा । सत्यः । अस्ति । सचा । यत् । ईम् । वृष-मनाः । अहम्-युः । स्थिरा । चित् । जनीः । वहते । सु-भागाः
पान्ति । मित्रावरुणौ । अवद्यात् । चयते । ईम् । अर्यमो इति । अप्र-शस्तान् । उत । च्यवन्ते । अच्युता । ध्रुवाणि । ववृधे । ईम् । मरुतः । दाति--वारः
नहि । नु । वः । मरुतः । अन्ति । अस्मे इति । आरात्तात् । चित् । शवसः । अन्तम् । आपुः । ते । धृष्णुनाशवसा । शूशु-वांसः । अर्णः । न । द्वेषः । धृषता । परि । स्थुः
वयम् । अद्य । इन्द्रस्य । प्रेष्ठाः । वयम् । श्वः । वोचेमहि । स-मर्ये । वयम् । पुरा । महि । च । नः । अनु । द्यून् । तत् । नः । ऋभुक्षाः । नराम् । अनु । स्यात्
एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः । आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीर-दानुम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0