भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.166

1.166.1

॥26॥.
-र्व्_2:4।1-
(र्व्_1,166)
तत् । नु । वोचाम । रभसाय । जन्मने । पूर्वम् । महित्वम् । वृषभस्य । केतवे । ऐधाइव । यामन् । मरुतः । तुवि-स्वणः । युधाइव । शक्राः । तविषाणि । कर्तन

1.166.2

नित्यम् । न । सूनुम् । मधु । बिभ्रतः । उप । क्रीळन्ति । क्रीळाः । विदथेषु । घृष्वयः । नक्षन्ति । रुद्राः । अवसा । नमस्विनम् । न । मर्धन्ति । स्व-तवसः । हविः-कृतम्

1.166.3

यस्मै । ऊमासः । अमृताः । अरासत । रायः । पोषम् । च । हविषा । ददाशुषे । उक्षन्ति । अस्मै । मरुतः । हिताः-इव । पुरु । रजांसि । पयसा । मयः-भुवः

1.166.4

आ । ये । रजांसि । तविषीभिः । अव्यत । प्र । वः । एवासः । स्व-यतासः । अध्रजन् । भयन्ते । विश्वा । भुवनानि । हर्म्या । चित्रः । वः । यामः । प्र-यतासु । ऋष्टिषु

1.166.5

यत् । त्वेष-यामाः । नदयन्त । पर्वतान् । दिवः । वा । पृष्ठम् । नर्याः । अचुच्यवुः । विश्वः । वः । अज्मन् । भयते । वनस्पतिः । रथियन्ती-इव । प्र । जिहीते । ओषधिः

1.166.6

॥1॥.
-र्व्_2:4।2-
यूयम् । नः । उग्राः । मरुतः । सु-चेतुना । अरिष्ट-ग्रामाः । सु-मतिम् । पिपर्तन । यत्र । वः । दिद्युत् । रदति । क्रिविः-दती । रिणाति । पश्वः । सुधिताइव । बर्हणा

1.166.7

प्र । स्कम्भ-देष्णाः । अनवभ्र-राधसः । अलातृणासः । विदथेषु । सु-स्तुताः । अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पैंस्या

1.166.8

शतभुजि-भिः । तम् । अभि-ह्रुतेः । अघात् । पूः-भिः । रक्षत । मरुतः । यम् । आवत । जनम् । यम् । उग्राः । तवसः । वि-रप्शिनः । पाथन । शंसात् । तनयस्य । पुष्टिषु

1.166.9

विश्वानि । भद्रा । मरुतः । रथेषु । वः । मिथस्पृध्याइव । तविषाणि । आहिता । अंसेषु । आ । वः । प्र-पथेषु । खादयः । अक्षः । वः । चक्रा । समया । वि । ववृते

1.166.10

भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षः-सु । रुक्माः । रभसासः । अञ्जयः । अंसेषु । एताः । पविषु । क्षुराः । अधि । वयः । न । पक्षान् । वि । अनु । श्रियः । धिरे

1.166.11

॥2॥.
-र्व्_2:4।3-
महान्तः । मह्ना । वि-भ्वः । वि-भूतयः । दूरे--दृशः । ये । दिव्याः-इव । स्तृ-भिः । मन्द्राः । सु-जिह्वाः । स्वरितारः । आस-भिः । सम्-मिश्लाः । इन्द्रे । मरुतः । परि-स्तुभः

1.166.12

तत् । वः । सु-जाताः । मरुतः । महि-त्वनम् । दीर्घम् । वः । दात्रम् । अदितेः-इव । व्रतम् । इन्द्रः । चन । त्यजसा । वि । ह्रुणाति । तत् । जनाय । यस्मै । सु-कृते । अराध्वम्

1.166.13

तत् । वः । जामि-त्वम् । मरुतः । परे । युगे । पुरु । यत् । शंसम् । अमृतासः । आवत । अया । धिया । मनवे । श्रुष्टिम् । आव्य । साकम् । नरः । दंसनैः । आ । चिकित्रिरे

1.166.14

येन । दीर्घम् । मरुतः । शूशवाम । युष्माकेन । परीणसा । तुरासः । आ । यत् । ततनम् । वृजने । जनासः । एभिः । यज्ञेभिः । तत् । अभि । इष्टिम् । अश्याम्

1.166.15

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः । आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc