भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.165

1.165.1

॥23॥.
-र्व्_2:3।24-
(र्व्_1,165)
कया । शुभा । स-वयसः । स-नीळाः । समान्या । मरुतः । सम् । मिमिक्षुः । कया । मती । कुतः । आइतासः । एते । अर्चन्ति । शुष्मम् । वृषणः । वसु-या

1.165.2

कस्य । ब्रह्माणि । जुजुषुः । युवानः । कः । अध्वरे । मरुतः । आ । ववर्त । श्येनान्-इव । ध्रजतः । अन्तरिक्षे । केन । महा । मनसा । रीरमाम

1.165.3

कुतः । त्वम् । इन्द्र । माहिनः । सन् । एकः । यासि । सत्-पते । किम् । ते । इत्था । सम् । पृच्छसे । सम्-अराणः । शुभानैः । वोचेः । तत् । नः । हरि-वः । यत् । ते । अस्मे इति

1.165.4

ब्रह्माणि । मे । मतयः । शम् । सुतासः । शुष्मः । इयर्ति । प्र-भृतः । मे । अद्रिः । आ । शासते । प्रति । हर्यन्ति । उक्था । इमा । हरी इति । वहतः । ता । नः । अच्छ

1.165.5

अतः । वयम् । अन्तमेभिः । युजानाः । स्व-क्षत्रेभिः । तन्वः । शुम्भमानाः । महः-भिः । एतान् । उप । युज्महे । नु । इन्द्र । स्वधाम् । अनु । हि । नः । बभूथ

1.165.6

॥24॥.
-र्व्_2:3।25-
क्व । स्या । वः । मरुतः । स्वधा । आसीत् । यत् । माम् । एकम् । सम्-अधत्त । अहि-हत्ये । अहम् । हि । उग्रः । तविषः । तुविष्मान् । विश्वस्य । शत्रोः । अनमम् । वध-स्नैः

1.165.7

भूरि । चकर्थ । युज्येभिः । अस्मे इति । समानेभिः । वृषभ । पैंस्येभिः । भूरीणि । हि । कृणवाम । शविष्ठ । इन्द्र । क्रत्वा । मरुतः । यत् । वशाम

1.165.8

वधीम् । वृत्रम् । मरुतः । इन्द्रियेण । स्वेन । भामेन । तविषः । बभूवान् । अहम् । एताः । मनवे । विश्व-चन्द्राः । सु-गाः । अपः । चकर । वज्र-बाहुः

1.165.9

अनुत्तम् । आ । ते । मघवन् । नकिः । नु । न । त्वावान् । अस्ति । देवता । विदानः । न । जायमानः । नशते । न । जातः । यानि । करिष्या । कृणुहि । प्र-वृद्धः

1.165.10

एकस्य । चित् । मे । वि-भु । अस्तु । ओजः । या । नु । दधृष्वान् । कृणवै । मनीषा । अहम् । हि । उग्रः । मरुतः । विदानः । यानि । च्यवम् । इन्द्रः । इत् । ईशे । एषाम्

1.165.11

॥25॥.
-र्व्_2:3।26-
अमन्दत् । मा । मरुतः । स्तोमः । अत्र । यत् । मे । नरः । श्रुत्यम् । ब्रह्म । चक्र । इन्द्राय । वृष्णे । सु-मखाय । मह्यम् । सख्ये । सखायः । तन्वे । तनूभिः

1.165.12

एव । इत् । एते । प्रति । मा । रोचमानाः । अनेद्यः । श्रवः । आ । इषः । दधानाः । सम्-चक्ष्य । मरुतः । चन्द्र-वर्णाः । अच्छान्त । मे । छदयाथ । च । नूनन्म्

1.165.13

कः । नु । अत्र । मरुतः । ममहे । वः । प्र । यातन । सखीन् । अच्छ । सखायः । मन्मानि । चित्राः । अपि-वातयन्तः । एषाम् । भूत । नवेदाः । मे । ऋतानाम्

1.165.14

आ । यत् । दुवस्यात् । दुवसे । न । कारुः । अस्मान् । चक्रे । मान्यस्य । मेधा । ओ इति । सु । वर्त्त । मरुतः । विप्रम् । अच्छ । इमा । ब्रह्माणि । जरिता । वः । अर्चत्

1.165.15

एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः । आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीर-दानुम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc