ऋग्वेदसंहिता, पदपाठ · अध्याय 1.163
॥10॥.
-र्व्_2:3।11-
(र्व्_1,163)
यत् । अक्रन्दः । प्रथमम् । जायमानः । उत्-यन् । समुद्रात् । उत । वा । पुरीषात् । श्येनस्य । पक्षा । हरिणस्य । बाहू इति । उप-स्तुत्यम् । महि । जातम् । ते । अर्वन्
यमेन । दत्तम् । त्रितः । एनम् । अयुनक् । इन्द्रः । एनम् । प्रथमः । अधि । अति ष्ठत् । गन्धर्वः । अस्य । रशनाम् । अगृभ्णात् । सूरात् । अश्वम् । वसवः । निः । अतष्ट
असि । यमः । असि । आदित्यः । अर्वन् । असि । त्रितः । गुहेन । व्रतेन । असि । सोमेन । समया । वि-पृक्तः । आहुः । ते । त्रीणि । दिवि । बन्धनानि
त्रीणि । ते । आहुः । दिवि । बन्धनानि । त्रीणि । अप्-सु । त्रीणि । अन्तरिति । समुद्रे । उत-इव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम्
इमा । ते । वाजिन् । अव-मार्जनानि । इमा । शफानाम् । सनितुः । नि-धाना । अत्र । ते । भद्राः । रशनाः । अपश्यम् । ऋतस्य । याः । अभि-रक्षन्ति । गोपाः
॥11॥.
-र्व्_2:3।12-
आत्मानम् । ते । मनसा । आरात् । अजानाम् । अवः । दिवा । पतयन्तम् । पतङ्गम् । शिरः । अपश्यम् । पथि-भिः । सु-गेभिः । अरेणु-भिः । जेहमानम् । पतत्रि
अत्र । ते । रूपम् । उत्-तमम् । अपश्यम् । जिगीषमाणम् । इषः । आ । पदे । गोः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । आत् । इत् । ग्रसिष्ठः । ओषधीः । अजीगरिति
अनु । त्वा । रथः । अनु । मर्यः । अर्वन् । अनु । गावः । अनु । भगः । कनीनाम् । अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते
हिरण्य-शृङ्गः । अयः । अस्य । पादाः । मनः-जवाः । अवरः । इन्द्रः । आसीत् । देवाः । इत् । अस्य । हविः-अद्यम् । आयन् । यः । अर्वन्तम् । प्रथमः । अधि-अतिष्ठत्
ईर्म-अन्तासः । सिलिक-मध्यमासः । सम् । शूरणासः । दिव्यासः । अत्याः । हंसाः-इव । श्रेणि-शः । यतन्ते । यत् । आक्षिषुः । दिव्यम् । अज्मम् । अश्वाः
॥12॥.
-र्व्_2:3।13-
तव । शरीरम् । पतयिष्णु । अर्वन् । तव । चित्तम् । वातः-इव । ध्रजीमान् । तव । शृङ्गाणि । वि-ष्ठिता । पुरु-त्रा । अरण्येषु । जर्भुराणा । चरन्ति
उप । प्र । अगात् । शसनम् । वाजी । अर्वा । देवद्रीचा । मनसा । दीध्यानः । अजः । पुरः । नीयते । नाभिः । अस्य । अनु । पश्चात् । कवयः । यन्ति । रेभाः
उप । प्र । अगात् । परमम् । यत् । सध-स्थम् । अर्वान् । अच्छ । पितरम् । मातरम् । च । अद्य । देवान् । जुष्ट-तमः । हि । गम्याः । अथ । आ । शास्ते । दाशुषे । वार्याणि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0