भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.162

1.162.1

॥6॥.
-र्व्_2:3।7-
(र्व्_1,162)
मा । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । परि । ख्यन् । यत् । वाजिनः । देव-जातस्य । सप्तेः । प्र-वक्ष्यामः । विदथे । वीयार्णि

1.162.2

यत् । निः-निजा । रेक्णसा । प्रावृतस्य । रातिम् । गृभीताम् । मुखतः । नयन्ति । सु-प्राङ् । अजः । मेम्यत् । विश्व-रूपः । इन्द्रापूष्णोः । प्रियम् । अपि । एति । पाथः

1.162.3

एषः । छागः । पुरः । अश्वेन । वाजिना । पूष्णः । भगः । नीयते । विश्व-देव्यः । अभि-प्रियम् । यत् । पुरोळाशम् । अर्वता । त्वष्टा । इत् । एनम् । सौश्रवसाय । जि न्वति

1.162.4

यद् । हविष्यम् । ऋतु-शः । देव-यानम् । त्रिः । मानुषाः । परि । अश्वम् । नयन्त् इ । अत्र । पूष्णः । प्रथमः । भागः । एति । यज्ञम् । देवेभ्यः । प्रति-वेदयन् । अजः

1.162.5

होता । अध्वर्युः । आवयाः । अग्निम्-इन्धः । ग्राव-ग्राभः । उत । शंस्ता । सु-विप्रः । तेन । यज्ञेन । सु-अरर्ङ्केतेन । सु-इष्टेन । वक्षणाः । आ । पृणध्वम्

1.162.6

॥7॥.
-र्व्_2:3।8-
यूप-व्रस्काः । उत । ये । यूप-वाहाः । चषालम् । ये । अश्व-यूपाय । तक्षति । ये । च । अर्वते । पचनम् । सम्-भरन्ति । उतो इति । तेषाम् । अभि-गूर्तिः । नः । इन्वतु

1.162.7

उप । प्र । अगात् । सु-मत् । मे । अधायि । मन्म । देवानाम् । आशाः । उप । वीत-पृष्ठः । अनु । एनम् । विप्राः । ऋषयः । मदन्ति । देवानाम् । पुष्टे । चकृम । सु-बन्धुम्

1.162.8

यत् । वाजिनः । दाम । सम्-दानम् । अर्वतः । या । शीर्षण्या । रशना । रज्जुः । अस्य । यत् । वा । घ । अस्य । प्र-भृतम् । आस्ये । तृणम् । सर्वा । ता । ते । अपि । देवेषु । अस्तु

1.162.9

यत् । अश्वस्य । क्रविषः । मक्षिका । आश । यत् । वा । स्वरौ । स्व-धितौ । रिप्तम् । अस्ति । यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वा । ता । ते । अपि । देवेषु । अस्तु

1.162.10

यत् । ऊवध्यम् । उदरस्य । अप-वाति । यः । आमस्य । क्रविषः । गन्धः । अस्ति । सु-कृता । तत् । शमितारः । कृण्वन्तु । उत । मेधम् । शृत-पाकम् । पचन्तु

1.162.11

॥8॥.
-र्व्_2:3।9-
यत् । ते । गात्रात् । अग्निना । पच्यमानात् । अभि । शूलम् । नि-हतस्य । अव-धावति । मा । तत् । भूम्याम् । आ । श्रिषत् । मा । तृणेषु । देवेभ्यः । तत् । उशत्-भ्यः । रातम् । अस्तु

1.162.12

ये । वाजिनम् । परि-पस्यन्ति । पक्वम् । ये । ईम् । आहुः । सुरभिः । निः । हर । इति । ये । च । अर्वतः । मांस-भिक्षाम् । उप-आसते उतो इति । तेषाम् । अभि-गूर्तिः । नः । इन्वतु

1.162.13

यत् । नि-ईक्षणम् । मांस्पचन्याः । उखायाः । या । पात्राणि । यूष्णः । आसेचनानि । ऊष्मण्या । अपि-धाना । चरूणाम् । अङ्काः । सूनाः । परि । भूषन्ति । अश्वम्

1.162.14

नि-क्रमणम् । नि-सदनम् । वि-वर्तनम् । यत् । च । पडबढबदबद्रह्णीशम् । अर्वतः । यत् । च । पपौ । यत् । च । घासिम् । जघास । सर्वा । ता । ते । अपि । देवेषु । अस्तु

1.162.15

मा । त्वा । अग्निः । ध्वनयीत् । धूम-गन्धिः । मा । उखा । भ्राजन्ती । अभि । विक्त । जघ्रिः । इष्टम् । वीतम् । अभि-गूर्तम् । वषट्-कृतम् । तम् । देवासः । प्रति । गृभ्णन्ति । अश्वम्

1.162.16

॥9॥.
-र्व्_2:3।10-
यत् । अश्वाय । वासः । उप-स्तृणन्ति । अधी-वासम् । या । हिरण्यानि । अस्मै । सम्-दानम् । अर्वन्तम् । पडबढबदबद्रह्णीशम् । प्रिया । देवेषु । आ । यमयन्ति

1.162.17

यत् । ते । सादे । महसा । शूकृतस्य । पार्ष्ण्या । वा । कशया । वा । तुतोद । स्रुचाइव । ता । हविषः । अध्वरेषु । सर्वा । ता । ते । ब्रह्मणा । सूदयामि

1.162.18

चतुः-त्रिंशत् । वाजिनः । देव-बन्धोः । वङ्क्रीः । अश्वस्य । स्व-धितिःः । सम् । एति । अच्छिद्रा । गात्रा । वयुना । कृणोत । परुः-परुः । अनु-घुष्य । वि । शस्त

1.162.19

एकः । त्वष्टुः । अश्वस्य । वि-शस्ता । द्वा । यन्तारा । भवतः । तथा । ऋतुः । या । ते । गात्राणाम् । ऋतु-था । कृणोमि । ताता । पिण्डान्म् । प्र । जुहोमि । अग्नौ

1.162.20

मा । त्वा । तपत् । प्रियः । आत्मा । अपि-यन्तम् । मा । स्व-धितिः । तन्वः । आ । तिस्थिपत् । ते । मा । ते । गृध्नुः । अवि-शस्ता । अति-हाय । छिद्रा । गात्राणि । असिना । मिथु । करिति कः

1.162.21

न । वै । ओं इति । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथि-भिः । सु-गेभिः । हरीइति । ते । युञ्जा । पृषती इति । अभूताम् । उप । अस्थात् । वाजी । धुरि । रासभस्य

1.162.22

सु-गव्यम् । नः । वाजी । सु-अश्व्यम् । पुंसः । पुत्रान् । उत । विश्वापुषम् । रयिम् । अनागाः-त्वम् । नः । अदितिः । कृणोतु । क्षत्रम् । नः । अश्वः । वनताम् । हविष्मान्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc