भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.161

1.161.1

॥3॥.
-र्व्_2:3।4-
(र्व्_1,161)
किम् । ऊआम् इति । श्रेष्ठः । किम् । यविष्ठः । नः । आ । अजगन् । किम् । ईयते । दूत्यम् । कत् । यत् । ऊच् इम । न । निन्दिम । चमसम् । यः । महाकुलः । अग्ने । भ्रातः । द्रुणः । इत् । भूतिम् । ऊदिम

1.161.2

एकम् । चमसम् । चतुरः । कृणोतन । तत् । वः । देवाः । अब्रुवन् । तत् । वः । आ । अगमम् । सौधन्वनाः । यदि । एव । करिष्यथ । साकम् । देवैः । यज्ञियासः । भवि ष्यथ

1.161.3

अग्निम् । दूतम् । प्रति । यत् । अब्रवीतन । अश्वः । कर्त्वः । रथः । उत । इह । कर्त्वः । धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि

1.161.4

चकृ-वांसः । ऋभवः । तत् । अपृच्छत । क्व । इत् । अभूत् । यः । स्यः । दूतः । नः । आ । अजगन् । यदा । अव-अख्यत् । चमसान् । चतुरः । कृतान् । आत् । इत् । त्वष्टा । ग्नासु । अन्तः । नि । आनजे

1.161.5

हनाम । एनान् । इति । त्वष्टा । यत् । अब्रवीत् । चमसम् । ये । देव-पानम् । अनिन्दिषुः । अन्या । नामानि । कृण्वते । सुते । सचा । अन्यैः । एनान् । कन्या । नाम-भिः । स्परत्

1.161.6

॥4॥.
-र्व्_2:3।5-
इन्द्रः । हरी । युयुजे । अश्विना । रथम् । बृहस्पतिः । विश्व-रूपाम् । उप । आजत । ऋभुः । वि-भ्वा । वाजः । देवान् । अगच्छत । सु-अपसः । यज्ञियम् । भागम् । ऐतन

1.161.7

निः । चर्मणः । गाम् । अरिणीत । धीति-भिः । या । जरन्ता । युवशा । ता । अकृणोतन । सौधन्वनाः । अश्वात् । अश्वम् । अतक्षत । युक्त्वा । रथम् । उप । देवान् । अयातन

1.161.8

इदम् । उदकम् । पिबत । इति । अब्रवीतन । इदम् । वा । घ । पिबत । मुञ्ज-नेजनम् । सौधन्वनाः । यदि । तत् । न-इव । हर्यथ । तृतीये । घ । सवने । मादयाध्वै

1.161.9

आपः । भूयिष्ठाः । इति । एकः । अब्रवीत् । अग्निः । भूयिष्ठः । इति । अन्यः । अब्रवीत् । वधः-यन्तीम् । बहु-भ्यः । प्र । एकः । अब्रवीत् । ऋता । वदन्तः । चमसान् । अपिंशत

1.161.10

श्रोणाम् । एकः । उदकम् । गाम् । अव । अजति । मांसम् । एकः । पिंशति । सूनया । आभृतम् । आ । नि-म्रुचः । शकृत् । एकः । अप । अभरत् । किम् । स्वित् । पुत्रेभ्यः । पितरौ । उप । आवतुः

1.161.11

॥5॥.
-र्व्_2:3।6-
उद्वत्-सु । अस्मै । अकृणोतन । तृणम् । निवत्-सु । अपः । सु-अपस्यया । नरः । अगोह्यस्य । यत् । असस्तन । गृहे । तत् । अद्य । इदम् । ऋभवः । न । अनु । गच्छथ

1.161.12

सम्-मील्य । यत् । भुवना । परि-असर्पत । क्व । स्वित् । तात्या । पितरा । वः । आसतुः । अशपत । यः । करस्नम् । वः । आददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन

1.161.13

सुषुप्वांसः । ऋभवः । तत् । अपृच्छत । अगोह्य । कः । इदम् । नः । अबूबुधत् । श्वानम् । बस्तः । बोधयितारम् । अब्रवीत् । संवत्सरे । इदम् । अद्य । वि । अख्यत

1.161.14

दिवा । यान्ति । मरुतः । भूम्या । अग्निः । अयम् । वातः । अन्तरिक्षेण । याति । अत्-भिः । याति । वरुणः । समुद्रैः । युष्मान् । इच्छन्तः । शवसः । नपातः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc