भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.158

1.158.1

॥27॥.
-र्व्_2:3।1-
(र्व्_1,158)
वसी इति । रुद्रा । पुरुमन्तूइतिपुरु-मन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभि ष्टौ । दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथेइति । अकवाभिः । ऊती

1.158.2

कः । वाम् । दाशत् । सु-मतये । चित् । अस्यै । वसूइति । यत् । धेथेइति । नमसा । पदे । गोः । जिगृतम् । अस्मे इति । रेवतीः । पुरम्-धीः । काम-प्रेण-इव । मनसा । चरन्ता

1.158.3

युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः । उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्-भिः । एवैः

1.158.4

उप-स्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् । मा । माम् । एधः । दश-तयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम्

1.158.5

न । मा । गरन् । नद्यः । मातृ-तमाः । दासाः । यत् । ईम् । सु-समुब्धम् । अव-अधुः । शिरः । यत् । अस्य । त्रैतनः । वि-तक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेतिग्ध

1.158.6

दीर्घ-तमाः । मामतेयः । जुजुर्वान् । दशमे । युगे । अपाम् । अर्थम् । यतीनाम् । ब्रह्मा । भवति । सारथिः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc