ऋग्वेदसंहिता, पदपाठ · अध्याय 1.157
॥26॥.
-र्व्_2:2।27-
(र्व्_1,157)
अबोधि । अग्निः । ज्मः । उत् । एति । सूर्यः । वि । उषाः । चन्द्रा । मही । आवः । अर्चिषा । अयुक्षाताम् । अश्विना । यातवे । रथम् । प्र । असावीत् । देवः । सविता । जगत् । पृथक्
यत् । युञ्जाथेइति । वृषणम् । अश्विना । रथम् । घृतेन । नः । मधुना । क्षत्रम् । उक्षतम् । अस्माकम् । ब्रह्म । पृतनासु । जिन्वतम् । वयम् । धना । शूर-साता । भजेमहि
अर्वाङ् । त्रि-चक्रः । मधु-वाहनः । रथः । जीर-अश्वः । अश्विनोः । यातु । सु-स्तुतः । त्रि-वन्धुरः । मघ-वा । विश्व-सौभगः । शम् । नः । आ । वक्षत् । द्वि-पदे । चतुः-पदे
आ । नः । ऊर्जम् । वहतम् । अश्विना । युवम् । मधु-मत्या । नः । कशया । मिमिक्षतम् । प्र । आयुः । तारिष्टम् । निः । रपांसि । मृक्षतम् । सेधतम् । द्वेषः । भवतम् । सचाभुवा
युवम् । ह । गर्भम् । जगतीषु । धत्थः । युवम् । विश्वेषु । भुवनेषु । अन्तरिति । युवम् । अग्निम् । च । वृषणौ । अपः । च । वनस्पतीन् । अश्विनौ । ऐरयेथाम्
युवम् । ह । स्थः । भिषजा । भेषजेभिः । अथो इति । ह । स्थः । रथ्या । रथ्येभिरितिरथ्येभिः । अथो इति । ह । क्षत्रम् । अधि । धत्थ । उग्रा । यः । वाम् । हविष्मान् । मनसा । ददाश
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0