भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.159

1.159.1

॥1॥.
-र्व्_2:3।2-
(र्व्_1,159)
प्र । द्यावा । यज्ञैः । पृथिवी इति । ऋत-वृधा । मही इति । स्तुषे । विदथेषु । प्र-चेतसा । देवेभिः । ये इति । देव-पुत्रेइतिदेव-पुत्रे । सु-दंससा । इत्था । धिया । वार्याणि । प्र-भूषतः

1.159.2

उत । मन्ये । पितुः । अद्रुहः । मनः । मातुः । महि । स्व-तवः । तत् । हवीम-भिः । सु-रेतसा । पितरा । भूम । चक्रतुः । उरु । प्र-जायाः । अमृतम् । वरीम-भिः

1.159.3

ते । सूनवः । सु-अपसः । सु-दंससः । मही इति । जज्ञुः । मातरा । पूर्व-चित्तये । स्थातुः । च । सत्यम् । जगतः । च । धर्मण् इ । पुत्रस्य । पाथः । पदम् । अद्वयाविनः

1.159.4

ते । मायिनः । ममिरे । सु-प्रचेतसः । जामी इति । सयोनी इतिस-योनी । मिथुना । सम्-ओकसा । नव्यम्-नव्यम् । तन्तुम् । आ । तन्वते । दिवि । समुद्रे । अन्तरिति । कवयः । सु-दीतयः

1.159.5

तत् । राधः । अद्य । सवितुः । वरेण्यम् । वयम् । देवस्य । प्र-सवे । मनामहे । अस्मभ्यम् । द्यावापृथिवी इति । सु-चेतुना । रयिम् । धत्तम् । वसु-मन्तम् । शत-ग्विनम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc