ऋग्वेदसंहिता, पदपाठ · अध्याय 1.156
॥25॥.
-र्व्_2:2।26-
(र्व्_1,156)
भव । मित्रः । न । शेव्यः । घृत-आसुतिः । विभूत-द्युम्नः । एव-याः । ऊआम् इति । स-प्रथाः । अध । ते । विष्णो इति । विदुषा । चित् । अर्ध्यः । स्तोमः । यज्ञः । च । राध्यः । हविष्मता
यः । पूर्व्याय । वेधसे । नवीयसे । सुमत्-जानये । विष्णवे । ददाशति । यः । जातम् । अस्य । महतः । महि । ब्रवत् । सः । इत् । ओं इति । श्रवः-भिः । युज्यम् । चित् । अभि । असत्
तम् । ओं इति । स्तोतारः । पूर्व्यम् । यथा । विद । ऋतस्य । गर्भम् । जनुषा । पिपर्तन । आ अस्य । जानन्तः । नाम । चित् । विवक्तन । महः । ते । विष्णो इति । सु-मतिम् । भजामहे
तम् । अस्य । राजा । वरुणः । तम् । अश्विना । क्रतुम् । सचन्त । मारुतस्य । वेधसः । दाधार । दक्षम् । उत्-तमम् । अहः-विदम् । व्र्जम् । च । विष्णुः । सखि-वान् । अप-ऊर्णुते
आ । यः । विवाय । सचथाय । दैव्यः । इन्द्राय । विष्णुः । सु-कृते । सुकृत्-तरः । वेधाः । अजिन्वत् । त्रि-सधस्थः । आर्यम् । ऋतस्य । भागे । यजमानम् । आ । अभजत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0