भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.155

1.155.1

॥24॥.
-र्व्_2:2।25-
(र्व्_1,155)
प्र । वः । पान्तम् । अन्धसः । धियायते । महे । शूराय । विष्णवे । च । अर्चत । या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताइव । साधुना

1.155.2

त्वेषम् । इत्था । सम्-अरणम् । शिमी-वतोः । इन्द्राविष्णूइति । सुत-पाः । वाम् । उरुष्यति । या । मर्त्याय । प्रति-धीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः

1.155.3

ताः । ईम् । वर्धन्ति । महि । अस्य । पैंस्यम् । नि । मातरा । नयति । रेतसे । भुजे । दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः

1.155.4

तत्-तत् । इत् । अस्य । पैंस्यम् । गृणीमसि । इनस्य । त्रातुः । अवृकस्य । मीळ्हुषः । यः । पार्थिवानि । त्रि-भिः । इत् । विगाम-भिः । उरु । क्रमिष्ट । उरु-गायायजीवसे

1.155.5

द्वे इति । इत् । अस्य । क्रमणेइति । स्वः-दृशः । अभि-ख्याय । मर्त्यः । भुरण्यति । तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः

1.155.6

चतुः-भिः । साकम् । नवतिम् । च । नाम-भिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् । बृहत्-शरीरः । वि-मिमानः । ऋक्व-भिः । युवा । अकुमारः । प्रति । एत् इ । आहवम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc