ऋग्वेदसंहिता, पदपाठ · अध्याय 1.147
॥15॥.
-र्व्_2:2।16-
(र्व्_1,147)
कथा । ते । अग्ने । शुचयन्तः । आयोः । ददाशुः । वाजेभिः । आशुषाणाः । उभे इति । यत् । तोके इति । तनये । दधानाः । ऋतस्य । सामन् । रणयन्त । देवाः
बोध । मे । अस्य । वचसः । यविष्ठ । मंहिष्ठस्य । प्र-भृतस्य । स्वधावः । पीयति । त्वः । अनु । त्वः । गृणाति । वन्दारुः । ते । तन्वम् । वन्दे । अग्ने
ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुः-इतात् । अरक्षन् । ररक्ष । तान् । सु-कृतः । विश्व-वेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः
यः । नः । अग्ने । अररि-वान् । अघ-युः । अराति-वा । मर्चयति । द्वयेन । मन्त्रः । गुरुः । पुनः । अस्तु । सः । अस्मै । अनु । मृक्षीष्ट । तन्वम् । दुः-उक्तैः
उत । वा । यः । सहस्य । प्र-विद्वान् । मर्तः । मर्तम् । मर्चयति । द्वयेन । अतः । पाहि । स्तवमान । स्तुवन्तम् । अग्ने । माकिः । नः । दुः-इताय । धायीः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0