ऋग्वेदसंहिता, पदपाठ · अध्याय 1.146
॥14॥.
-र्व्_2:2।15-
(र्व्_1,146)
त्रि-मूर्धानम् । सप्त-रश्मिम् । गृणीषे । अनूनम् । अग्निम् । पित्रोः । उप-स्थे । नि-सत्तम् । अस्य । चरतः । ध्रुवस्य । विश्वा । दिवः । रोचना । आपप्रि-वांसम्
उक्षा । महान् । अभि । ववक्षे । एनेइति । अजरः । तस्थौ । इतः-ऊतिः । ऋष्वः । उर्व्याः । पदः । नि । दधाति । सानौ । रिहन्ति । ऊधः । अरुषासः । अस्य
समानम् । वत्सम् । अभि । सञ्चरन्ती इतिसम्-चरन्ती । विष्वक् । धेनू इति । वि । चरतः । सुमेके इतिसु-मेके । अनप-वृज्यान् । अध्वनः । मिमानेइति । विश्वान् । केतान् । अधि । महः । दधानेइति
धीरासः । पदम् । कवयः । नयन्ति । नाना । हृदा । रक्षमाणाः । अजुर्यम् । सिसासन्तः । परि । अपश्यन्त । सिन्धुम् । आविः । एभ्यः । अभवत् । सूर्यः । नॄन्
दिदृक्षेण्यः । परि । काष्ठासु । जेन्यः । ईळेन्यः । महः । अर्भाय । जीवसे । पुरु-त्रा । यत् । अभवत् । सूः । अह । एभ्यः । गर्भेभ्यः । मघ-वा । विश्व-दर्शतः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0