ऋग्वेदसंहिता, पदपाठ · अध्याय 1.148
॥16॥.
-र्व्_2:2।17-
(र्व्_1,148)
मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्व-अप्सुम् । विश्व-देव्यम् । नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभावम्
ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्यचाकन् । जुषन्त । विश्वानि । अस्य । कर्म । उप-स्तुतिम् । भरमाणस्य । कारोः
नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्ति-भिः । दधिरे । यज्ञियासः । प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः
पुरूणि । दस्मः । नि । रिणाति । जम्भैः । आत् । रोचते । वने । आ । विभावा । आत् । अस्य । वातः । अनु । वाति । शोचिः । अस्तुः । न । शर्याम् । असनाम् । अनु । द्यून्
न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति । अन्धाः । अपश्याः । न । दभन् । अभि-ख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0