ऋग्वेदसंहिता, पदपाठ · अध्याय 1.145
॥13॥.
-र्व्_2:2।14-
(र्व्_1,145)
तम् । पृच्छत । सः । जगाम । सः । वेद । सः । चिकित्वान् । ईयते । सः । नु । ईयते । तस्मिन् । सन्ति । प्र-शिषः । तस्मिन् । इष्टयः । सः । वाजस्य । शवसः । शुष्मिणः । पतिः
तम् । इत् । पृच्छन्ति । न । सिमः । वि । पृच्छति । स्वेन-व । धीरः । मनसा । यत् । अग्रभीत् । न । मृष्यते । प्रथमम् । न । अपरम् । वचः । अस्य । क्रत्वा । सचते । अप्र-दृपितः
तम् । इत् । गच्छन्ति । जुह्वः । तम् । अर्वतीः । विश्वानि । एकः । शृणवत् । वचांसि । मे । पुरु-प्रैषः । ततुरिः । यज्ञ-साधनः । अच्छिद्र-ऊतिः । शिशुः । आ । अदत्त । सम् । रभः
उप-स्थायम् । चरति । यत् । सम्-आरत । सद्यः । जातः । तत्सार । युज्येभिः । अभ् इ । श्वान्तम् । मृशते । नान्द्ये । मुदे । यत् । ईम् । गच्छन्ति । उशतीः । अपि-स्थितम्
सः । ईम् । मृगः । अप्यः । वनर्गुः । उप । त्वचि । उप-मस्याम् । नि । धायि । वि । अब्रवीत् । वयुना । मर्त्येभ्यः । अग्निः । विद्वान् । ऋत-चित् । हि । सत्यः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0