भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.144

1.144.1

॥12॥.
-र्व्_2:2।13-
(र्व्_1,144)
एति । प्र । होता । व्रतम् । अस्य । मायया । ऊर्ध्वाम् । दधानः । शुचि-पेशसम् । धियम् । अभि । स्रुचः । क्रमते । दक्षिणाआवृतः । याः । अस्य । धाम । प्रथमम् । ह । निंसते

1.144.2

अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । योनौ । देवस्य । सदने । परि-वृताः । अपाम् । उप-स्थे । वि-भृतः । यत् । आ । अवसत् । अध । स्वधाः । अधयत् । याभिः । ईयते

1.144.3

युयूषतः । स-वयसा । तत् । इत् । वपुः । समानम् । अर्थम् । वि-तरित्रता । मिथः । आद्त् । ईम् । भगः । न । हव्यः । सम् । अस्मत् । आ । वोळ्हुः । न । रश्मीन् । सम् । अयंस्त । सारथिः

1.144.4

यम् । ईम् । द्वा । स-वयसा । सपर्यतः । समाने । योना । मिथुना । सम्-ओकसा । दिवा । न । नक्तम् । पलितः । युवा । अजनि । पुरु । चरन् । अजरः । मानुषा । युगा

1.144.5

तम् । ईम् । हिन्वन्ति । धीतयः । दश । व्रिशः । देवम् । मर्तासः । ऊतये । हवामहे । धनोः । अधि । प्र-वतः । आ । सः । ऋण्वति । अभिव्रजत्-भिः । वयुना । नवा । अधित

1.144.6

त्वम् । हि । अग्ने । दिव्यस्य । राजसि । त्वम् । पार्थिवस्य । पशुपाः-इव । त्मना । एनी इति । ते । एते
इति । बृहती इति । अभि-श्रिया । हिरण्ययी इति । वक्वरी इति । बर्हिः । आशातेइति

1.144.7

अग्ने । जुषस्व । प्रति । हर्य । तत् । वचः । मन्द्र । स्वधावः । ऋत-जात । सुक्रतो इतिसु-क्रतो । यः । विश्वतः । प्रत्यङ् । असि । दर्शतः । रण्वः । सम्-दृष्टौ । पितुमान्-इव । क्षयः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc