भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.143

1.143.1

॥11॥.
-र्व्_2:2।12-
(र्व्_1,143)
प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे । अपाम् । नपात् । यः । वसु-भिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः

1.143.2

सः । जायमानः । परमे । वि-ओमनि । आविः । अग्निः । अभवत् । मातरिश्वने । अस्य । क्रत्वा । सम्-इधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत्

1.143.3

अस्य । त्वेषाः । अजराः । अस्य । भानवः । सु-सन्दृशः । सु-प्रतीकस्य । सु-द्युतः । भात्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः

1.143.4

यम् । आईरिरे । भृगवः । विश्व-वेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना । अग्निम् । तम् । गीः-भिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति

1.143.5

न । यः । वराय । मरुताम्-इव । स्वनः । सेनाइव । सृष्टा । दिव्या । यथा । अशनिः । अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । न । शत्रून् । सः । वना । नि । ऋञ्जते

1.143.6

कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसु-भिः । कामम् । आवरत् । चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचि-प्रतीकम् । तम् । अया । धिया । गृणे

1.143.7

घृत-प्रतीकम् । वः । ऋतस्य । धूः-सदम् । अग्निम् । मित्रम् । न । सम्-इधानः । ऋञ्जते । इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्र-वर्णाम् । उत् । ओं इति । नः । यंसते । धियम्

1.143.8

अप्र-युच्छन् । अप्रयुच्छत्-भिः । अग्ने । शिवेभिः । नः । पायु-भिः । पाहि । शग्मैः । अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्-भिः । परि । पाहि । नः । जाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc