ऋग्वेदसंहिता, पदपाठ · अध्याय 1.142
॥9॥.
-र्व्_2:2।10-
(र्व्_1,142)
सम्-इद्धः । अग्ने । आ । वह । देवान् । अद्य । यत-स्रुचे । तन्तुम् । तनुष्व । पूर्व्यम् । सुत-सोमाय । दाशुषे
घृत-वन्तम् । उप । मासि । मधु-मन्तम् । तनू-नपात् । यज्ञम् । विप्रस्य । मावतः । शशमानस्य । दाशुषः
शुचिः । पावकः । अद्भुतः । मध्वा । यज्ञम् । मिमिक्षति । नरासंसः । त्रिः । आ । दिवः । देवः । देवेषु । यज्ञियः
ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् । इयम् । हि । त्वा । मतिः । मम । अच्छ । सु-जिह्व । वच्यते
स्तृणानासः । यत-स्रुचः । बर्हिः । यज्ञे । सु-अध्वरे । वृञ्जे । देवव्यचः-तमम् । इन्द्राय । शर्म । स-प्रथः
वि । श्रयन्ताम् । ऋत-वृधः । प्र-यै । देवे--भ्यः । महीः । पावकासः । पुरु-स्पृहः । द्वारः । देवीः । असश्चतः
॥10॥.
-र्व्_2:2।11-
आ । भन्दमानेइति । उपाके इति । नक्तोषसा । सु-पेषसा । यह्वी इति । ऋतस्य । मातरा । सीदताम् । बर्हिः । आ । सु-मत्
मन्द्र-जिह्वा । जुगुर्वणी इति । होतारा । दैव्या । कवी । यज्ञम् । नः । यक्षताम् । इमम् । सिध्रम् । अद्य । दिवि-स्पृशम्
शुचिः । देवेषु । अर्पिता । होत्रा । मरुत्-सु । भारती । इळा । सरस्वती । मही बर्हिः । सीदन्तु । यज्ञियाः
तत् । नः । तुरीपम् । अद्भुतम् । पुरु । वा । अरम् । त्मना । त्वष्टा । पोषाय । वि । स्यतु । राये । नाभा । नः । अस्म-युः
अव-सृजन् । उप । त्मना । देवान् । यक्षि । वनस्पते । अग्निः । हव्या । सुसूदत् इ । देवः । देवेषु । मेधिरः
पूषण्-वते । मरुत्वते । विश्व-देवाय । वायवे । स्वाहा । गायत्र-वेपसे । हव्यम् । इन्द्राय । कर्तन
स्वाहाकृतानि । आ । गहि । उप । हव्यानि । वीतये । इन्द्र । आ । गहि । श्रुधि । हवम् । त्वाम् । हवन्ते । अध्वरे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0